पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः २७१ २. ज्ञानविधिः । मोक्षोपायस्य ज्ञानस्य विधेयत्वे पुरुषपरतन्त्रत्वेन क्रियात्वापत्तौ क्रियासाध्यस्य मोक्षस्य स्वर्गवदनित्यत्वापत्तिरिति बिभ्यतो ज्ञानसा- मान्यस्य विवेयत्वं निराकुर्वन्ति । ज्ञानमपि मानसी क्रियेति प्रज्ञा अङ्गी- कुर्वन्त्येव | ययाऽऽह वाचनतिः समन्वयसूत्रभामत्याम् - 'सत्यं ज्ञानं मानसी क्रिया’ इति । कल्पतरुकारश्च – 'यवादि पूर्वपक्षे ज्ञानस्य भावा- र्थत्वाद् विधेयत्वम्' इति तत्र क्रियात्वमभ्युपेत्य विधेयत्वं निराक्रियत इत्याह – सत्यमिति" इति । तथाऽपि विहितक्रियाजन्यत्वेनानित्यो मा भून्मोक्ष इति विधेयत्वं निरस्यन्ति। वयन्तु तस्य विधेयत्वेऽपि हानिं ·कामप्यपश्यन्तः तन्निरसनमनुपपन्नत्वान्न सहामहे । यो हि पराग्दृष्टिः कश्चित् तं वयं ब्रूमः 'मां पश्येति । न चायम- मुख्यो व्यवहारः । न च चाक्षुषज्ञानस्य साध्यत्वं नास्ति । पूर्वमभूतस्य तस्य तदानीं तेन स्वप्रयत्नेनोत्पाद्यमानत्वात । यथा घटमानयेत्युक्तो योज्यस्तदानयति तथैव हि मां पश्येत्युक्तः पश्यति । न च पश्येति वदता ज्ञानस्य साध्यत्वमनुद्दिष्टम् । न चेन्द्रियार्थसन्निकर्ष सम्पादनमात्रे पुरुषव्यापारस्यांपरमात् ततः परमुत्पद्यमानस्य न पुरुषतन्त्रत्वम् | जला- ग्नितण्डुलसंयोगनिष्पत्तिमात्रे तदुपरमात् पाकस्यापि अपुरुषतन्त्रत्वापत्तेः साध्यभेदेन साधनव्यापार विशेषा भिद्यन्ते । यदा मृदः प्रतिमाः क्रियन्ते, तदा हस्तयोरेव साक्षात् तत्र व्यापारः | अग्निज्वलने न तथा । सस्यजल सेचने जलमार्गविधानमात्रेऽस्माकं व्यापारः | जलं तु स्वयं प्रसृतं केदारं व्याप्नोति । न चानेन विशेषेण अभिज्वलनं वा जलसेचनं चा पुरुपतन्त्रं न भवतीति शक्यं वक्तुन् | साक्षाद्वा परम्परया वा तदुद्देश- प्रवृत्तक्रिया निष्पाद्यत्वं हि साध्यत्वम | तच्च ज्ञानेऽप्यस्ति ।