पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः श्रवणादि २६५ इत्यनेन परामर्शः । कर्मत्वरूपेण परामर्शेऽपि योग्यता बलात् ध्रुव- । ण/त्मककर्मभानम् । न कर्मणेति निषेधस्तु तदन्यकर्मणः । ज्ञानप्रसादपदेन निष्कामकर्मानुष्ठानाधीनसत्त्वशुद्धेः, ध्यायमान- पदेन निदिध्यासनस्योक्तत्वात् अवशिष्टश्रवणस्यैव तत्सदेन वक्तुमौचित्यात् । इति तदीयं व्याख्यानं दृश्यते । प्रवर्षणेभ्य ईदृग्भ्यो नूनं भीता किल श्रुतिः । निलोना क्वापि संवृत्ता जनानां दृष्टिगांचरात् ॥ न चक्षुषा बाह्येन ज्ञानेन्द्रिये ए, न वाचा कर्मेन्द्रियेण, नाप्यन्यैः बाह्य : ज्ञानकर्मेन्द्रियैः, नापि तपसा अनशनप्रधानेन कायक्लेशेन, नापि इष्टिप शुसोमरूपेण वैदिक कर्मणा परमपुरुषो गृह्यते इति पूर्वार्धे "नाहं वेदैन क्षपसान दानेन न चेज्यया" इति, "न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तगेभिरुयैः” इति चोक्तरीया असाधनवर्ग नर्देशं परिसमाप्य विशिष्टं साधनमुपदेष्टमुत्तरायें प्रवतंत इति स्पष्टमेतत् | तुकारेण पूर्व- वाक्योक्तार्थगन्धोऽपीह नास्तीति निस्सन्देहमावेद्यते । 'प्रकृतव्यावृत्त्यर्थश्च तुशब्दः' इति भूमाधिकरणे भवद्भाष्यम् । तस्मात् तत इत्यनेन पूर्वोक्तपरामर्शे तुशब्दात्मकश्रुतिविराधः एको दोषः । निषिद्धसाधनभावस्यैव कर्मणः अनुपदं साधनत्वाक्तो विप्रतिषेधो द्वितीयां दोषः । न च सामान्यविशेष न्यायेनास्य परिहारः । विशेषाश्रव- रणोत् । उभयाः सामान्यमुखेनैव प्रवृत्तेः । ज्ञानप्रसादेनेति विशुद्धसत्त्व इति च द्वाभ्यां पदाभ्यां व्यवधानं तृतीयो दोषः । अनुपस्थित श्रवण- कल्पनं चतुर्थो दाषः । श्रुतमतवेदान्तार्थस्य परमात्मदर्शनकांक्षणः तदर्थं यतमानत्वावस्थायां क्रियमाणो ह्ययमुपदेशः । अत्र श्रवणोपस्थापकं किमपि प्रमाणं नास्ति । एतेन ज्ञानप्रसादेनेत्यस्य मननाधीनबुध्यै काम च परत्वाश्रयणं पञ्चमो दोष इति ख्यापितम् । मननादपि पराया एवाव- - १८