पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाइनांसद्धिः तृतीयः मवगम्यते । तच्च वाक्यार्थनिश्चयजनकतया लोके ज्ञातम् । मन्तव्य इति शब्दसामर्थ्यावगतं मननमपि जातस्य निश्चयस्य प्रतिष्ठापकं ज्ञातम् | सुज्ञातसुनिश्चित एवार्थे निदिध्यासनसम्भवात् श्रवणमननया- निदध्यासनोपारस्यं ज्ञायते । इदं तदुपकारसामर्थ्यं लिङ्गम् । एवं शब्दाचगतार्थसामर्थ्याभिप्रायणैव शब्दसामर्थ्यरूपेण लिङ्गेनेत्युक्तम् । पश्यते निष्कल ध्यायमान इति समभव्याहारात्मकवाक्येन निदिध्या- सनस्य दर्शन रूपफलसम्बन्धाऽवगतः । ध्यायमानः पश्यत इति हि ध्यानेन पश्चतीत्येतदुर्थकम् । एवं फलवति ध्याने प्रकरणोदयात् फलवत्स- न्निध।विति न्याचेन तदुपकारसमर्थयाः श्रवणमननयोस्तदङ्गत्वं भवतीति वादिनां समञ्जसमिद्भुपपादनम् । । यत्त्वत्र योग्यताबलात् श्रवणमेवाध्याहियत इत्याद्युक्तं तत्र नूनं लांज- तव्यम् । को नु भा अध्याहारस्य प्रसङ्गः । अनध्याहारपक्षखण्डन अध्याहारपक्षावलम्बना कथं शक्यंत रामा रावणमववदित्यत्र वि क्ति व्यत्यासो योग्यताबलात् क्रियते । तथा च रामं रावरणाऽववदि- त्यनुकूलार्थ एव पर्यवसानमिति रावणविजयवादिनां यावद् वाक्याथे- बर्णनकोशलं ताबदेवेद दृश्यते । तथा चाद्वैतानुरागभूम्ना यत् किमपि कर्तुं सज्जा भवन्त इत्येषा स्थितिरत्राप्चभिव्यक्तव्यास्ता तावत् । इमां दुरवस्त्रां परिहतु कामां व्याख्याता मुले 'अध्यायित इत्यस्य ‘तत इत्यनेन परामृश्यते' इति विचित्र व्याख्यानं कुर्वन् मन्त्रं विनाशयति । "न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मरणा वा । ज्ञानप्रसादेन विशुद्धसत्त्व - स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥” इत्ययं मुण्डकमन्त्रः । अत्र कर्मणः पूर्वमुक्तत्वान् तस्यैव श्रवणरूप विचारात्मकस्य तत