पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः द्वितीयः रश्च अद्वैतविरोध्येव । यत्तु परमसाम्य मैक्यरूपमिति तत वाष्टर्चा तश- यविजृम्भितम् । नहि परमनीलमत्युक्ते श्वेतमुक्तं स्यान | साम्ये नार- तम्यसत्त्वात् परममिति विशेषित मिति न तस्य वैयर्थ्यम् | प्रसिद्धं च साम्ये तारतम्यं लोके । पूर्वतन्त्रे च षष्ठतृतीय प्रतिनिधिप्रकरणे सुसदृशं ईषत्सदृशमिति ग्रन्थकारः व्यवहन्ति । ! 'पुरुप एवेदं विश्वम' इत्यादि सामानाविकरण्यं च शरीरात्मभाव- निबन्धनमिति स्थितम । 'पये सर्व एकीभवन्तीत्यपि लयाभिप्रायं, न त्वभेदाभिप्रायम् । प्रलयविषयत्वात् । 'ब्रह्म व भवतीति च साम्य- परम । 'विष्णुरेव भृत्वा' इतिवत | ब्रह्म वेदेति वेद्यवेदितृभावेन 'कर्म कर्तृव्यपदेशाच्च' इति न्यायात भेदस्यांतत्वेन, तस्य नित्यत्वेन च. ' ऐक्यार्थत्वा सम्भवात् । 2 तदेवं आदिमध्यावसानेषु ऐक्यप्रतिपादनं नास्ति । अतोऽभिक्रम- गन्यायस्यात्र न प्रसरः। अपितु राजसूयन्यायस्य । निश्चितार्थयजि- पदानुरोधेन यथा अनिश्चितार्थराजसूयपदार्थावधारणं, तथाऽत्र ·द्वासु- पर्णेति मन्त्रानुरोधेन पुरुष एवेदमित्यादेरर्थोऽववार्यः । सामानाधिकर- ण्यस्य बहुप्रकारत्वेन सन्दिग्धार्थत्वात | तेन 'तयोरन्यः पिप्पलं स्वाद्वत्ति, ' 'अनश्नन्नन्यः', 'अन्यमीशम्' इत्यभ्यासो निराबाधः । नायं भेदस्ता- त्त्विक इति तु पूर्वमेव निरस्तम् । तात्त्विक भेदान्तरं नास्तीति | अपू- र्वोऽयं भेद इति चोक्तम | ईश्वर स्वरूप प्रतिपत्त्चन्तर्गतत्वात् । पुण्यपापे विधूयेति फले तस्मादात्मज्ञ ह्यर्चयेद् भूतिकामः, इत्येवमादिरूपेऽर्थवादे. अति [अनशनन्नित्युपपत्तौ च नातीव विवादः । अतः तात्पर्यलिङ्गानि अद्वैतप्रतिकूलान्येव । एवं अन्यत्रापि द्रष्टव्यम् । आत्मेत्येवोपासीतेति बृहदारण्यके कामं सूत्रिता ब्रह्मविद्या | सा तु. अद्वैतपरेत्यसत् । ‘स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषः, अत एकैकेन भवति ।' इति पूर्वेण, 'अत्र होते सर्व एकं भवन्ति' इत्युत्तरेण -