पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः भेदानुमानम् अवर्ज्यः प्रमिता भेदो भवद्भिर्भङक्तुमिध्यते । विना मानं विना युकिं स्वसिद्धान्तति मात्रतः ॥ १०. मेदानुमानम् । 9 - यद्यपि प्रत्यक्षसिद्धेऽर्थे अनुमानमनपेक्षितम् तथाऽपि तर्करसिकतथा भेदेऽनुमानमध्यात्रियमाणाः प्रयुञ्जते – “जीवेशी भिन्ना विरुद्धधर्माधि- करणत्वात् दहनतुहिनबन्” इति । अत्राह – दुःखादेरन्तःकरणादि- धर्मत्वेन स्वरूपासिद्धिर्शित ! इदमयुक्तम् । यदि ह्यन्तःकरणस्यैत्र दुःखादि न चैतन्यस्य, तर्हि तस्यैव संसारित्वं स्यात् । तान्नवृत्तिरूपो मोज्ञश्च तस्यैव । न चैवमिष्यते । अस्मिन्नेव प्रकरणे अन्ते 'ब्रह्मणो जीववव संसारित्व पत्तौ इष्टापत्तिः' इति जीवस्य भवता तदभिधानात् । न च जडस्यान्तःकरणस्य दुःखित्वं सम्भवति । प्रयोगश्च अन्तःकरणं न दुःखि, जडत्वात् ५टवत्, इति । तस्मान्न तावत् स्वरूपासिद्धिरनु मानदोषः ।

२१६ 9 नापि एञ्त्रैव निदुःखत्वदुःखवत्वयोरवच्छेदभेदेन दृष्टतया धर्मि- भेदासाधकत्वम् । एकत्रैव दृष्टयोः अविरुद्धत्वेन हेत्वनन्तर्भावात् । के तर्हि विरुद्धा धर्मा इति चेन्, एवं पृच्छनः कोऽभप्रायः ? किं ते नैव सन्तीति अथवा सन्तीति । आद्ये 'तथा जीवेशयोमिंदा' इनि जीवेश भेदस्यानादित्वेन गणनं नोपपद्यते । न हि विरुद्धधर्मानधिकरणत्वे भेदो भवेत् । अन्त्ये कुतोऽस्मान् प्रति प्रश्नः । भवताऽपि हि ते वक्तत्र्याः। सौहान प्रश्न इति चेन्न । सौहार्दस्याप्रकाशनात् । विन लिप्सायाः प्रकाशनात् । देहोंपद्रवजन्यं हि दुःखं अवच्छेद देशभेदेन स्वाभावसमानाधिकरणं कथञ्चिद् भवेत् । न तु पुत्रमरणराज्यावहारादि- जन्यम् । इदं च दुःखं जीवस्य प्रत्यक्षसिद्धम् | ईरास्य एवमादिदुःखं सर्वथा नास्तीति श्रुतय आहुः | ईदृशयोश्च दुःवित्वप्रतियोगिव्यधिकरण- तद्भावयोर्विरुद्धधर्मत्वेन विवक्षायां सत्यां अविरुद्धौ तावादाय प्रयोग-