पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ विशिष्टाद्वैतसिद्धिः 1 कृत एव भवति । भेदाधिकरणं जीवः अन्नःकमित्ये तत्तु सिद्धे वक्तुं युज्येत । इमं प्रतीयमानं भेदमनुसृत्य जीवस्व- रूपमन्यन्, ईश्वरस्वरूपमन्यदति प्रतिज्ञानामहे । तत्राभेदरक्षणपरैः भेदस्या न्यथासिद्धये जीवस्वरूपं वाऽन्यथा कल्पनीय, तत्त्वमसाति श्रुते- र्वाऽन्योऽर्थो वाच्य इति विमर्शे पूर्वपक्षो भवद्भिराश्रितः उत्तरोऽस्माभिः i अयमेव युक्त इति चोपपादितम् । एवं सांत नाहं सर्वज्ञ इत्यादिजीवेश्वर- भेदानुभवस्य शुद्धचैतन्ये निदुःखादिप्रतियोगिक भेदः वगाहित्वं नास्तीत्यु - क्तिरसङ्गता । न हि शुद्धचैतन्ये भेदावगाहित्वं केनचिदुतम् । प्रचलप्रत्य- क्षसिद्धत्वाज्जीवेश्वरभेदस्य तदभेदो न श्रुत्यर्थ इत्येव वाच्यम् । अतोऽद्वै- तार्थापत्तिविरहाद्न्तःकरणावच्छिन्न एव भेदग्रह इत्येतन्नास्ति । अन्तःकरणस्य बहिःकरणवत् करणत्वेन जीवस्वरूपानन्तर्गतत्वान् । यद्यपि सामचमत इव अन्तःकरणावच्छिन्नचैतन्यमेव जीवः तथापि इदं जीवचैतन्यं निदुःखत्रह्मचैतन्यादन्यदेव | अबाधितभेदप्रत्ययान् । एतदाभासीकरणक्षमस्य प्रमाणान्तरस्य यस्य कस्याप्यभावात् । अस म्भवाञ्च | चैतन्यनिष्ठो हि प्रतीतिगम्यो भेदः । अन्तःकरणस्यावच्छे- दकमात्रत्वात् । यथा घटत्वावच्छिन्ननिष्ठः पटभेदो घट एव घटत्वे । अस्मिंस्तु तद्भेदः प्रत्ययान्तरगम्यः । तथेति । यदपि साक्षिप्रत्यक्षस्या- ध्यस्तसाधारणतया तत्सिद्धत्वमात्रेण भेदे अबाधितत्वमसम्भावितमेवेति, तदपि भवभिनवसानोऽप्रमालिकाबादेव निरस्तम् । इत्थं जीवेश्वरभेदवत् जीवानां परस्परं भेदोऽपि प्रत्यक्षसिद्धः । न "हं. चैत्र इति । अहमर्थश्चेतनः चैत्रशरीरात्मभूतचेतनादन्य इात हि तदर्थः । घटो न ब्रह्म, घटः पटो न, नाहं घटः, इत्यबाधितप्रतीतिबलात् एतेऽपि भेदाः सिद्धाः । यत्तु कल्पितभेदविषया इमाः प्रतीतय इति । तन्न | कल्पितत्वे प्रमाणाभावात् । एतद्विरोधेनाद्वैतस्यैव कल्पितत्वावगमात् । तस्माद्भेदपञ्चकं प्रत्यक्षसिद्धमित्येतन्निष्क्रम्पम् । द्वितीयः