पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः द्वितीयः ब्रह्मणोऽवेद्यत्वानुमानं बाधितमेव । अत एव एतक त्युपष्टव्धानि ब्रह्म स्फुरणविषयं अपरोक्षव्यवहारविषयत्वात् घटवदित्यादांनि वेद्यत्वानु- मानानि समञ्जसानि सन्ति भवदनुमानं सत्प्रतिपक्षयन्ति । न चात्र एफुग्णप्रयुक्तव्यवहारातत्व विषयत्वमादाय सिद्धसाधनम् । साक्षा- द्विषयत्वस्य साध्यत्वात् । न चास्य स्वस्मिन् वृत्तिविरोधेन बाधः | प्रका शकस्य स्वस्मिन् वृत्तिविरोधाभावात् । दोपप्रभा हि स्त्रप्रकाश्या । अत एव विषयविपविभवस्य सम्बन्धत्वन भेदनियततथा स्वस्मिन् स्ववेद्यत्वं विरुद्धमिति निरस्तम् | प्रकाश्यप्रकाशकमावसम्बन्धस्य दीपे एकस्मिन् दर्शनान् । अभेदतादात्म्यादीनामपि सम्बन्धत्वाभ्युपगमाञ्च | समवाय- सम्बन्धावच्छिन्न कार्थना निरूपिततादात्म्यसम्बन्धविच्छ, नकारणत्वं सम- वायिकारणत्वमिति ह्याहुः | संयोगसमवःचादीनां केषाश्चिदेव सम्बन्धा- नां भेदनियमात् । यच्च स्वविषयत्त्वे किञ्चिदाहरणं नास्तीति तन्न | तत्तुल्ये स्वप्र- काश्यत्वे उदाहरणस्य प्रदर्शितत्वात् । दीपप्रभा यथा घटादिकं तथाऽऽत्मा- नमपि हि प्रकाशयति । तथा च तस्याः प्रकाशकत्वं प्रकाश्यत्वमित्युभय- मध्यस्ति | तद्वदेव ज्ञानस्यापीदमुभयमस्तीति किमनुपपन्नम् ? सत्तया स्त्रव्यवहारप्रयोजकत्वे उदाहरणाभावस्य समानत्वाच्च । यच्चोक्तम्- व्यवहारोपपादनार्थं स्वविषयत्वस्वभाव कल्पनापेक्षया स्वाविषयत्वेऽपि स्वत्र्यवहारजनकत्वस्वभावत्वमेव कल्प्यताम्, लाघवात् इति तत् कथ मिति न विवृतम् | लाघवं तु स्वविषयत्व क्ष एव | सर्व वस्तु ज्ञानप्रका श्यमित्यत्र नद्यवहारं प्रति तद्नुभवः कारणमित्यत्र च ज्ञानेतरत्वक्रोि- षणं भवन्मने यथा देयं तथा तत्र तस्यादेयत्वात् । न च विषयविषयि भावो भिन्ननिष्ठ इति नियमे ज्ञानव्यतिरिक्तस्थल इति सङ्कोचकरणं भव- तोऽप्यावश्यकमिति वाच्यम् । अस्य नियमस्यानपेक्षितत्वात् । न हि घटः स्वविषयः स्यादित्यापत्तिः सम्भविनी, येन स नियम आद्रियेत । , २०६