पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः निमित्तांपादनत्वम् १६७ एतेन अद्वितीयपदं] इतर मध्यात्व परतया न व्याख्येयमित्यपि ज्ञापि- तम् । सदेव सोम्येदमित्युपादानत्वप्रतिपादनेन तदतिरिक्तनिमित्तकार- णसत्त्वप्रसक्तौ तत्प्रतिषेधपरं हि तन् । एवं प्रमाणान्तरप्राप्तार्थाबाधेनोप- पत्तौ सम्भवन्त्यां तद्राबावार्थान्तभित्रनं अन्याय्यम् । एवं ब्रह्मणो नित्यत्वमपि नेतरव्यावृत्तं वाच्यम नित्यो नित्यानां, सदा पश्यन्ति, इत्यन्येषामपि तच्छ्रवणात् । अत एव सर्वकालसम्बन्धित्वादिलक्षणेषु अतित्र्यायादिवारणप्रयासो नारीकर्तव्यः । इतरेषामपि प्रामाणिकस्य नित्यत्वस्व एण्डव्यत्वात् । न खलु तेषां नित्यत्वेन ब्रह्मणां नित्यत्वं मात्रयाऽपि हीयते । , साक्षित्वं च ब्रह्मणः साक्षात्कारवत्त्वम् । इदं च चैतन्यमात्ररूपस्य ब्रह्मणो न घटते | यत्रोक्तं - अविद्यात कार्यान्तरप्रतिफलित चैतन्य- स्यैव साक्षित्वम् । तथा च हग्रूपस्यानि उपाधिना द्रष्टृत्वम् इति । तन्न | स्वाभाविक्स्य यथाश्रुतस्य द्रष्टृत्वस्य परित्यागे औपाधिकस्य कल्पने च मानाभावात् । एतदनुरोधेन स्त्रतो द्रष्टुरेव ब्रह्मणोऽङ्गी- कर्तव्यत्वान् | केवलदृग्रूपस्यानङ्गीकर्तव्यत्वात् । तदेवं श्रुतज्ञानत्वाद्यनुप- पत्तेरपि अद्वैतमनादरणीयमिति सिद्धम् । ५. निमित्तोपादानत्वम् । जगत्प्रति ब्रह्मोपादानं, तदेव निमित्तं चेत्यस्माकमपीष्टम् | देव सोम्येदम्, तड़ैक्षत बहु स्यां प्रनायेयेति, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीत्यादिभ्यः । परं तु अद्वैतब्रह्मणः उपादानत्वं वा निमित्चत्त्रं वः कथं घटत इति वक्तव्यम् । न हि विवर्ताविष्ठानस्य उपादानत्वं क्वविद् दृष्टम् । नच आत्मनि कार्यजनहेतुत्वमेवोपादानत्त्रम् | तच्च ब्रह्मणि अविहतमिति वाच्यम् । गर्भं प्रति मातुरुपादानत्वापत्तेः । तद्देह धातुविशेष एव हि तदुपादानम् । न तु माता । चक्रस्य घटोपादानत्वा- पत्तेश्च । अतो नेदमुपादानलक्षणम् | अपि तु यद्वस्थं कार्यद्रव्यं ततः