पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ विशिष्टाद्वैतसिद्धिः द्वितीयः दन्यत् । इतरेभ्यो व्यावर्तऋधर्मो वक्तव्य इति प्रश्नार्थ: । कालस्वं स इति प्रतिवचनार्थः। यः कालः स तद्ब्रह्मत्युक्तं भवति । एवमाद्युत्तरं निराकृतवन्तस्ते चिरकृतध्यानयोगबलेन तत्त्वमुपत्लेभिरं । किं तत् । चेत- नवर्गस्य भोग्यभोगोपकरणभोगस्थानरूपेण विविध परिणामशालिनी प्रकृ तिमपश्यन् । भोतारं जीववर्गमपश्चन | ततः परं स्वान्विष्टं ब्रह्मशब्द- वाच्यं परमात्मानमपश्यन् । ऋः सः ? सौ 'यः कारणानि निखिलानि तानि कालात्मयुक्तान्यवितिष्ठत्येकः प्रवृत्तिनिवृत्तिकारणभूनानि प्रकृतिपरिणामात्मकानि सर्वाणि द्रव्याणि तेषां ज्ञातारं स्वोचिततत्तत्कर्मकर्तारं जीवात्मानं सर्वकार्य- सामान्यकारणं कालं च य एकः अवितिष्ठति स तद्ब्रह्म स्वजिज्ञा- सितं कारणवस्तु इति ते निरधारयन् | सकलचेतनाचेतनविलक्षणो यः सर्वज्ञः सर्वशक्तः सः स्वजिज्ञासितो व्यक्तिविशेष इत्युक्त भवति । चेतनाचेतनात्मक स्वेतर समस्त वस्तु विलक्षण चेतनत्वं प्रश्नविषयो व्यावर्तकधर्मः अनेन ज्ञापितो भवति । अयमेव धर्मः अस्या उप- निषदः प्रधानप्रतिपाद्यः । अत एव 'पृथगात्मानं प्रेरितारं च मत्वा' 'संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीश: ' 'क्षरं प्रधानम- मृताक्षरं हरः क्षरात्मानावीशते देव एकः ' 'भोक्ता भोग्यं प्रेरितारं च मत्वा' इति तद्भ्यासः क्रियते । एवं च प्रश्ने यथा अनेक गुणविशिष्टत्वं ब्रह्मण उक्तं तथैव प्रतिवचनेऽपि सकलचेतनाचेतनप्रेरकत्वत दाक्षिप्ताने- कगुणान्तरवैशिष्ट्य तम्योच्यत इति स्वरसवाही अक्लिष्टोऽयमधः । अनयैव रीत्या सत्यं ज्ञानमनन्तं ब्रह्म, आनन्द ब्रह्मत्यादि पूक्तं ज्ञान्त्वान- न्दत्वादिकमपि ब्रह्म विशेषणं यथाश्रुतं प्रतिपत्तव्यम् । ततश्च तद्विशिष्टमेव परतत्त्वमिति । तत्र आनन्दत्वं स्वस्य परेषां चानुकूलतया वंदनीयत्वम् | तच्च स्वाभाविकं नित्यं च ।