पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ विशिष्टाद्वैतसिद्धिः द्वितीयः । क्यापत्तिस्तु न | आपादकाभावात् । दण्डविशिष्टे धर्मिणि हि कुण्डल- विशिष्टधर्म्यभेदोऽत्र वाक्यार्थः । तत्र धर्मिणोरेव ऐक्यं प्रतीयते । न धर्मयोः । तथैव व्युत्पत्तेः । प्रत्यक्षं हि दण्डकुण्डले एकस्मिन पुरुष विद्य- माने दृष्ट्वा तमर्थं परस्मै बोधयन्नेवमाह - दण्डी कुण्डलीति । न हीतो ऽन्येन प्रकारेण सोऽर्थः प्रकाशयितुं शक्यः । न च पदयोः स्रवलद्गतित्व- मस्ति । तस्माद् विशिष्टयोरव पदाभ्यानुपस्थितावपि विशेष्ययोरेव पर- स्परमन्वयः । न तु विशेषज्ञ योरपि । - ननु दण्डित्वं विशेषणं वा उपलक्षणं वा ? आद्ये तस्यापि कुण्डलित्व- मुक्तं स्यात् । विधेयान्वयन एव विशेषणत्वात् । अन्त्ये विशिष्टस्योद्द- श्यत्वं परित्यक्तव्यं स्यात् । न । उभयथापि सम्भवात् । विधेयानन्वयित्वा- दुपलक्षणं च । तत्प्रतीतिकाले प्रतीयमानत्वाद्विशेषणं च । एनंन सोऽयं देवदत्त इति प्रत्यभिज्ञामिलापकवाक्यमपि व्याख्यातम् । पूर्वं देशान्तरे स्थितस्य दृष्टस्य च अद्य एतद्देशस्थित दृष्टाभेदे विरोधाभावात् । पूर्वं तत्र स्थितो दृष्टो वा अयं वा अन्यो वा इति संशये निवर्तनीये उद्देश्य - विधेयभाव ईदृशः । पूर्व तत्र स्थितो दृष्टो वा यः सः अयमिति अयमेव नान्य इति भावः । अयं अचात्र स्थितः पूर्वं तत्र यः स्थितो दृष्टो वा स एव किम्, उतान्य इति तु संशये अद्यात्र सतो दृश्यमानस्य वा पूर्वं तत्र स्थित दृष्टाभेदो वोध्यत इत्येवमुद्देश्यविधेयभावो द्रष्टव्यः– योऽय- मन्त्र स्थितः सः, सः पूर्वं तत्र स्थित एवेति । न हि कालभेदेन एकस्य देशद्वयसम्बन्धे कश्चन विरोधोऽस्ति । अतो दण्डी कुण्डर्ल ति यादृशं तादृशः मेवेदमपि वाक्यम् | उभयत्राविरुद्धधर्मद्वयसम्बन्धिनो धमिस्‍ एक्त्वबोधनात् । अयं तु विशेषः । पूर्वस्मिन् समानकालिकधर्मद्रय- सम्बन्धः | उत्तररिमन भिन्नवालिक देश द्वयसम्बन्ध इति । तेन अविरुद्ध विशेषणद्वयप्रभवत्वेपि विशिष्टयोर्द्वयोः । घटते न यदैऋता तदा नतरां तद्विपरीतरूपयोः ॥ -