पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अखण्डाथवादः. १६५ 1 चाक्यत्वात्, नीली घट इत्यादिवत् | यन्नैवम् तन्नैवम् यथा पदमिति प्रबलं प्रत्यनुमानं च । न च लक्षणवाक्क भिन्नत्वनुपाविः | लक्षणवाक्यानामपि संसृष्टार्थकत्वस्यापनादितत्वेन साध्यव्यापकत्वाभावात् । एवं तत्त्वमत्यादिव'क्यस्यानि नाखण्डार्थत्वम् । तच्छ्रदेन ह सार्व- ज्या विशिष्टं सच्छन्दवाच्यं प्रकृतं ब्रह्मांच्यते । त्वंशब्देन च सम्बोध्यः श्वेतकेतुजवः | परन्तु प्राज्ञा देवदत्त इत्यत्र यत्रा देवदत्तशब्दः तच्छ- गैरकमाचष्टे तथाऽयं त्वंशब्दोऽ प श्वेतकेनुशरीरकमाचष्टे । तच्छन्द- सामानविकरण्यात् । यद्वा त्वंशब्दो जवपर एव । तच्छन्दस्तु उक्त- विधब्रह्मात्मकपरः । तथा च उक्तविधं ब्रह्म त्वच्छरीरकमिति वा, त्वं तदात्मक इति वा वाक्याथः | एक विज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुष- पादनार्थं कार्यकारणयोः सज्जगतार नन्वत्वमुपदिश्य जगत्सृष्टिमुक्त्वा सृप्टे जगांत ब्रह्म अन्तरात्मतयाऽवतिष्ठत इति “ऐतदात्म्यमिदं सर्वं, तत्सत्यं स आत्मा इत्यनेनावेद्य एवं सामान्यत उक्त श्रांतरि विशेषे निद्शयन्नाह—‘तत्त्वमसि' इति । सर्वं जगत् तदात्मकम् । अतस्त्वमपि तदात्मक एव इत्युक्तं भवति । भिन्नयोः शरीरात्मभावमुपदिश्वानुपर्द सामानाधिकरण्यावलम्बनमेतत् जगद्ब्रह्मणाः सामानाधिकरण्यं यत्र यत्र दृश्यते तत्र सर्वत्र शरीरात्मभावनिवन्धनं तदिति ज्ञापयति । भगवद्- गीतासु च आदित्यानामहं विष्णुरित्युपक्रम्य सामानाविकरण्येन स्ववि- भूतीर्वदन् ततः पूर्वं 'अमात्मा गुडाकेश सर्वभूताशयस्थितः' इति तन्निबन्धनं शरीरात्मभावं दर्शितवान् भगवान् । 'न तदस्ति विना यत् स्यान् मया भूतं चराचरम्' इत्यन्ते च पुनः स्मारितवान् । अनेन श्रौतं सामानाधिरकण्यमुपबृंहितं भवति । एवं अनि अक्लिष्टे चार्थे स्थिते अद्वैतानिनिवेशमात्रेण अखण्डार्थत्वमत्र आमनं हृदयहृदयङ्गमं न भवति । तथा हि । दण्डी कुण्डलीत्यत्र तावत् विशिष्ट योरैक्यमुपपन्नमेव । विशेषगयोरध्यै M