पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ विशिष्टाद्वैतसिद्धिः कोक्तरीत्या अद्वैतश्रुतेरेवोपचरितार्थत्वं युक्तम् । नियतपौर्वापर्यपरस्परसा- पेक्षत्वाभ्यां उच्चैऋचा क्रियत इत्यत्रार्थवादविध्योः प्रकृते प्रत्यक्षाद्यद्वैत-- श्रुत्योञ्च समानत्वान् तस्य न्यायस्यात्र प्रवृत्तिर्निविधातेति विभाव्यम् | यञ्चान्यपरत्वानन्यपरत्वाभ्यां ऋविशेषोऽभिमतः सोऽपि नास्ति T अद्वैतश्रुतेरपि त्रह्मप्रतिपत्तिशेषत्वात् । ब्रह्मज्ञानं 'ह भोऩसाधन, न केवलं प्रपञ्चमध्यात्वज्ञानमात्रम् | नापि ब्रह्मस्वरूपमात्रम् | विदाप्नोनि परम्’ ‘ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतेः ! तद् ब्रह्म कथम्भूतमिति जिज्ञासायां 'नेह नानास्ति किञ्चन इत्यादि प्रय ते । तस्मादिदमध्य- न्यपरमेवेति । प्रथमः - ननु नास्यान्यपरत्वमर्थवादत्वेन यूवादित्यादिवाक्यवत् । अपितु अपेक्षितविशेषसमर्पक्त्वेन, दना जुड़ातत्याद्यविधिवाक्यवत् । तस्मात् न दिधौ परः शब्दार्थ इति न्यायेन गुणकल्पनाऽत्र न युज्यत इति चेन् सत्यम् । तथापि अस्य स्वार्थपरत्वे प्रत्यक्षस्य विश्वसत्त्ववादिश्रुतिवाक्या- न्तराणां च अत्यन्तपीडापत्तेः तदपेक्षयाऽत्र गुणकल्पनैव श्रेयसी | नोवं सति यस्य कस्याप्यप्रामाण्यप्रसङ्गोऽम्ति | यदि चाद्वैतश्रुतिः स्वार्थपरा- भवेत् तर्हि कृत्स्नो वेदः तद्न्तर्गतमिदं वाक्यं च स्वयं मिथ्या भवेत् । तथा च कस्येदानीं मिथ्यात्वं केन प्रमाणेन सिद्धन् । तदिदं प्राचीनैरे- वोक्तं दूषणं अद्याप्यरिहार्यनेव वर्तने । न चासत्यादपि सत्यसिद्धि- र्भवतीति कदाचित् बुद्धिमद्धत अन्यत्र अगतिकेभ्योऽभि- निविष्टेभ्यः | सर्वमिदंपतो वा प्रपञ्चमिथ्यात्वाभिधायिनी श्रुतिरस्तीत्य पेत्योयुक्तम् । न तु सा काचित् वस्तुतोऽस्ति | प्रकृतमेव नेह नाने!त वाक्यमत्रोदाहरामः । इदं व्याचक्षागैरसमदुपनिषद्भाष्यकार: बृहदा- रण्यके एवमभाषि- इह द्रष्टव्ये ब्रह्मणि । नानाशब्दो भावप्रधानः । नानात्वमित्यर्थः ।