पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः आगमबाधः ६३ पत्तिप्रसङ्गोन उपपत्तिरूपतात्पर्य लिङ्गविरहाच्च । इह किञ्चन आकाशादिकं नास्ति त्रैकालिकाभावप्रतियोगि, इत्यर्थविवक्षायां 'वह्निरनुष्णः’ ‘अङ्गुल्यग्रे करिवरशतम् इत्यादिष्विव शाब्दवोधस्यैवनुदयान् | उदयेऽपि वा बाधि- तत्वेनैवोदयःन् । गतेनान्यशेषत्वनिरवकाशत्वतालर्यवत्त्वादिभिरद्वैतश्रुतेः विश्वसत्ता- बोधकश्रुत्यपेक्षया प्राबल्यसाधन प्रत्याशा दूरोत्सारिता | शाब्दबोधजनन एव'क्षमत्वान् | अर्थबंधेि सम्पन्ने दिव्यं श्रुतिरितरापेक्षया प्रबला दुर्बला वेति विचारस्यावसरो भवेन्, अनन्यशेषत्वादिना निर्णयञ्च । तदेव तु नास्ति । निश्चितप्रामाण्यप्रत्यक्षबाधितत्वात् तस्यार्थस्य | यथा यूप अदित्याभेदस्य | अथोच्यत – शब्दश्रवणसमनन्तरं सर्वत्र प्राभाणान्तरबाधाबाथ- विनर्श विना झटिति बोधो भवति । तदनन्तरं मानान्तरविरोधाविरोध- विमर्शः, न्यायेन निर्णयश्च भवतः । एवं सति अद्वैत श्रुत्या प्रपञ्चमिथ्यात्व- ब.धे जाते, ततः तत्सत्त्वबोधकश्रुत्या विरोधे उपस्थिते, अनन्यपरत्वान् पूर्वस्याः स्वार्थनिष्ठत्वं परस्या उपचरितार्थत्वं च निश्चीयते । उपचरि- तार्थः व्यावहारिकसत्वम् • प्रत्यक्षावगतमपि सत्वमीदृशमेव | अन्यथाऽ- द्वैतश्रुत्यनुपपत्तेः।—इति । तद्युक्तम् | सुचिरोपयुक्तसुदृढप्रमाणावसि- तार्थविरुद्धार्थप्रतिपादकान् वाक्यान् विरोधप्रतीतिं विनैव शाब्दबोधोदय- स्यात्यन्तमसम्भावितत्वात् । अन्यथा वह्निरनुष्णः आपः कठिना इत्या- दिभ्योऽपि कदाचिन् तथा बोधोदयप्रसङ्गात् । व्यावहारिकसत्त्वमित्यनेन मिथ्यात्वातिरिक्तं न किञ्चिदुक्तं भवतीति च पूर्वमेवोक्तम् | शुक्तिरूप्य:- दिकमल्पकालप्रतिभासम् | घटादिकं तु दीर्घकालप्रतिभासं, स्वप्नवन् व्यवहारप्रतिभासयुक्तं चेत्येतावानेव हि विशेषः, न तु मिथ्यात्वे कश्चि दिति । तस्माद्द्वैतश्रुत्यनुरोधे प्रत्यक्षस्य तत्समान विषयाणां वेदवाक्यानां च अत्यन्तमेचोपरोधात् तत्परिहार यासञ्जातविरोधिन्यायेन शास्त्रदीपि