पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः आगमवाधः पञ्चसत्यत्वं च कण्ठत | नक्वचिन् व्यङ्गमर्याद्वाऽपि मिथ्या- त्वम् | 'वोऽभावा मर्त्यस्य यदन्तकैतत्' इति प्रापञ्चिकानां वस्तूना- मनित्यत्वमाह । सृष्टिप्रलयप्रदर्शनेन प्रपञ्चस्य : तत्मादनित्यत्वेऽपि प्रपञ्चस्य परमार्थसत्त्वानुपायात् एतत्प्रतिपाद के नागमन बाधितमेव मिथ्यात्वानुमानम् । यत्तु विश्वसत्त्वप्रतिपादनमा गमिकं अन्यपरत्वान्न स्वार्थततरमित, तेन किमुक्तं भवतीति विवेचनीयम । वायु क्षेपिष्ठा देवतेत्यस्य हि अन्यपरत्वेऽपि याथाभ्यॆलक्षणं प्रामाण्यं नापैति । अवश्यं चान्यपराणामधि वाक्यानामबाधितार्थत्वाय बावस्तुप्रतिपादकत्वं यतनीयम् । तत्र आदित्यो ग्रूप इत्यादौ गुणवादमाश्रित्य याथार्थ्यं क्ल्प्यते | वायुर्वै क्षेपिष्टेत्यादौ यथाश्रुनार्थस्यैव यथार्थत्वात् स तथैव गृह्यते, न तु किञ्चित् कल्प्यते । वज्रहस्तः पुरन्दरः इत्यत्राप्येवमेव | वायुक्षेपिष्ठत्वं प्रत्यक्षावगतम् | पुरन्दरवज्रहस्तत्वं तु अनेनैव वेदवाक्ये - नावगम्यत इति विशेषः । न चानेनैव वाक्चेनास्य स्वार्थस्य विधेय प्रशंसारूपम्य अर्थान्तरस्य चाभिधाने वाक्यभेद इति वज्र- हस्तत्वात प्रशस्तः पुरन्दर इति विशिष्टाभिधानस्य शाब्दत्वात् । पुरन्दरबज्रहस्तत्वस्य अर्थ आक्षेपान् 'एकोक्त्यवसितानां तु नाथदेपो विरुद्धचत' इति न्यायेन वाक्यभेदाभावान् । अन्यथा प्रशंसा- रूपतःत्पर्य॑विपयार्थासद्धेः । न हि वज्रहस्तत्वं वस्तुतः पुरन्दरस्य नास्तीति प्रतियतः तस्मिन् प्राशयवृद्धिदेमलम् । आहुश्च 'कथ- मसता गुणेन कथितेन नुतिर्भवति इति । तस्मादन्यपरतयाऽपि वेदोक्तं 'वैश्वसत्त्वं पारमार्थिकमेवेति । एतद्विरुद्वसाध्यसाधकतया निर्दिष्टो हेनुः कालात्ययापदिष्ट एव | ननु प्रवलयाऽद्वैतश्रुत्या विश्वसत्वबोधक श्रुतिर्वाध्यत इति चेन्न । बाधासम्भवात् । श्रुतिश्च वाध्यते चेति विप्रतिषेधान् । ननु तार्तीयां बाधः दाशमिको बाध इति प्रसिद्ध एव वेदवाक्यसम्बन्धी बाधो वैदि-