पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः विशेषानुमानि ५६ ग्रन्थषु । संयं महती तार्किक विडम्बना । वृक्षोऽयं दिव्यस्थानम्, हरिवि हरणाधिकरणत्वात् वैकुण्ठवत् इति यथा । विपर्यस्य चेदनुमानं पठितुं शक्यम् - ब्रह्म अमिथ्यात्वेन प्रपञ्चान्न भिद्यते, व्यवहारविषयत्वात् शुक्तिरूप्यवत् | साध्यसत्त्व मन्त्र त्रेधा-स्वस्य मिथ्यात्वेन उभयोरमिथ्यात्वेन उभयोमिथ्यात्वेन वा । तत्रान्तिमपक्षस्यासम्भवात् पक्षे साध्यसिद्धि पर्यव सानं मध्यमपक्षेण | दृष्टान्ते तु प्रथमपणेनि विवेक इति । २१. विमतं मिथ्या मोक्षहेतु ज्ञानाविषयत्वे सति असदन्यत्वान् शुक्तिरुप्यवत्, इत्यत्र हेतुग्प्रयोजकः । बाधितत्वाद्वि तत्र मिथ्यात्वं न तु मोक्षहेतु- ज्ञानाविषयत्वादिना। विमतं न मिथ्या अयथार्थज्ञानाविषयत्वात् ब्रह्म- बदिति प्रतिसाधनम्। २२. मोक्ष हेतुज्ञान विषयत्वं परमार्थसत्त्वव्यापकम् परमार्थसत्त्वसमानाधिकरणत्वात् पारमार्थिकत्वेन श्रुतितात्पर्य विषयत्व- अन् । इत्यत्र हेतुरप्रयोजकः । सर्वपरमार्थ सद्वृत्तित्वमुपाधिः । पृथिवीत्वं द्रव्यत्वव्यापकम् द्रव्यत्व हेतुज्ञान विषयत्वं परमार्थसत्त्वव्यापकं न ज्ञान- विषयत्वात् घटत्वाद्यवच्छिन्नज्ञान विषयत्ववत्, इति प्रतिसाधनञ्च | २३. एतलटात्यन्ताभावः एतत्तन्तुनिष्ठः एतत्पटाना भावत्वात् एतत्व- टान्योन्याभाववत् इत्यत्र पूर्ववदप्रयोजकत्वं स्थितम् । अविरुद्ध प्रतियो- गिऋत्यमुपाधिः । एतत्पटात्यन्ताभावः एतत्तन्तुनिष्ठो न, एतत्पटानधि- करणवृत्तित्वात् पटान्तराधिकरणत्ववत्, इति प्रत्यनुमानं च | २४. यदा- समवायसम्बन्धावच्छिन्नोऽयमेतत्पटात्यन्ताभावः एतत्तन्तुनिष्ठः एत- `पटप्रतियोगिकात्यन्ताभावत्वान् सम्बन्धान्तरावच्छिन्नैतत्पटात्यन्ता- भाववत् इत्यस्मिन्ननुमानान्तरेऽपि पूर्ववत् प्रयोजकत्वोपाधिप्रत्यनुमा- नानि द्रष्टव्यानि । सम्बन्धविशेषावच्छिन्नोऽयं ब्रह्मत्वात्यन्ताभावः ब्रह्म- निष्टः ब्रह्मत्वप्रतियोगिकात्वन्ताभावत्वात् सम्बन्धान्त रावच्छिन्नब्रह्म- त्वाभाववत् इत्याभाससाम्यं च दुष्परिहरम् । ६५ व्याप्यवृत्तित्वानधि- करणत्वे सनि उक्तपक्षतावच्छेदकवत् स्वसमानाधिकरणात्यन्ताभावप्रति- -