पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ परिच्छेदः परिच्छुित्रत्वम् न्वयः कचिन्युत्पन्नः । बाधश्च, न हि सत्तैव ब्रह्म । अपि तु सदित्यलं (११) परिन्छिनत्वम् । सत्य ज्ञानमनन्तं ब्रह्नोति ब्रह्मलक्षणमह श्रुतिः । अत्र ब्रह्मणः सत्य- त्वाभिधानान् तदितरस्य कृत्स्नस्यासभ्यस्वरूयं मिथ्यात्वं वक्तव्य मित्यातिष्ठमानास्तस्य साध्यधर्मस्यं कुर्छन्ति । अथ यद् ज्ञानमिति तत्र तप्रतिसम्वन्धि द्वयं भवति-ज्ञेयं ज्ञानभिनं च । तत्र ज्ञेयत्वं दृश्यस्वम् ज्ञानभिन्नत्यं जडत्वम् । इदमुभयं हे कुर्वन्तीत्यपश्याम । अथ यद्- नन्तमिति तस्यापरिच्छिन्नमित्यर्थः । अनेन ब्रह्मभिन्नस्य सर्वस्य परिच्छिन्नवं लभ्यते । इदमपि हेतूकुर्वन्नाह-परिच्छिन्नत्वमपि हेतुरिति । अस्य पूर्वाभ्यां हेतुभ्यां मात्रयाऽपि न विशेषः । न हि शुक्तिरूप्यगतपरिछिन्नत्वस्य मिथ्यात्वस्य च महानसीयपरिच्छिन्न त्ववह्नयोरिव मिथः सम्वन्धं यः कश्चिद्यदाकदाचिद् गृह्वाति । तस्माद्य- = यत्र सर्चसमर्थनसामथ्र्याभिमानतिरेकेणोक्तम् ‘अत एव घटादयः स्वानुगतप्रतिभासे वस्तुनि कल्पिताः विभक्तवात् । तथा सर्पमालादिकं स्वानुगतत्रतिभासे रज्वादौ इदमंशे विभज्यते, एवं ब्रह्मण्यनुगच्छति घटादिकं विभज्यते सन् घटः सन् पट इति, इत्यानन्दबोधोक्तमपि साधु ।” इति, तन् श्रद्धालुमात्रसह्यम् । नीलो घटः. जातो घटःशुक्लः पटःनष्टः पटःइत्यादिवन् सन् घटः सन् पट इति प्रतीतिः कामं भवति । तत्र नैल्यादीनामिव सत्वस्यापि घटादिधर्मत्वे स्थिते तस्य ब्रह्मत्वं धर्मित्वं च प्रतिज्ञायमानं कथं तत्त्वविद्भिः सहेत । न च गौर्गच्छति, अधो गच्छति, महिषो गच्छति, मनुष्यो गच्छतीत्यनुवृत्त प्रतिभासायां गमनक्रियायां कल्पिता गवादयः। न च रज्जुसर्पमालादीनां