पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ विशिष्टाद्वैतसिद्धिः प्रथम: e = स्ति सम्भव इति तद् धार्षीर्थमात्रेणोक्तम् । दर्शननियमविरोधेनापि यदि कस्यचिदर्थस्य सम्भव उच्यते, तहिं बहिं विनापि अस्ति धूमस्य सम्भवः, शशेऽपि कदाचिदस्ति शृङ्गस्य सम्भव इति कथं नोच्येत । मा भून् ज्ञानं गुणो वा क्रिया वा अथापि पारतन्त्र्यनियमान् रत्नप्रभया रत्नस्यैव. अ।लोकेन ज्योतिष इव चाश्रयस्यानुमानं निरावाधमेव । ज्ञेयसम्बन्धश्च ज्ञेयव्याप्यत्वम् । तच्च यद्यत् ज्ञानं तत्तन् क्रिश्चिदर्थाव- गाहि इत्येवंरूपम् । न तु तत्र देशस्य कालस्य वा घटनाऽस्ति । तदत्र न कस्यचित् दूषणस्यावकाशः। जानातताति निराबाधव्यवहारबलाच्चा श्रयापेक्षा ज्ञानस्य सिद्धा । न चास्याः काद्वाचकत्वं सुवचम्। माना भावान् । अस्ति ब्रहृति सत्ताया अपि कनपेक्षा नियतैव । नित्यत्वेऽपि तसम्भवात् । न ह्यत्पादकत्वमत्र कतृत्वमिष्यते, येन सत्ताया नित्य स्वात् तत्कर्तृत्वासम्भवाद् उच्येत । अपि त्वाश्रयत्वम् । यत्तु नित्यत्वेन- तसम्भवात् साधुत्वाथ एव तत्र कतर तकार इति । तदयुक्तम् । ब्रह्म नास्तीत्यस्य साधुत्वापत्तेः । सत्तानिरूपितकर्तृत्वाभाववत् व्रति ह्यत्र बोधः। स चाबाधित एवेति । अथोच्येत-नबभावे यस्य बोधः तदभाव एव नबा बोध्यते । अस्ति व्रतेत्यत्र च कर्तुबस्य नास्ति वध इत्युक्तम् । अतस्तदभावत्रोधो नञ्घटितस्थले न भवितुमर्हतीति । तर्हि नबभावस्थले कथं बोध इति विमर्शनीयम् । यदि सत्त्वाश्रयत्ववद् व्रतैति, तर्हि सत्तया अस्त्येवाश्रयापेक्षा। अथ सत्तैव ब्रह्मणि प्रक।र- तयाऽन्वेति, न लकारोक्तमाश्रयत्वमपेक्षत इति मतम् तदनुपपन्नम् . । नामार्थस्यापि साक्षान् क्रियान्वयाभ्युपगमेन विभक्तीनामपि साधुत्वार्थ रत्वप्रसङ्गात् । घटोऽस्तीत्यादावपि चेतनधर्मस्य कर्तृत्वस्य दुर्घटत्वेन साधुत्वार्थ एव लकार इति प्रसङ्गाच्च । किञ्च केन सम्बन्धेन ब्रह्मणि सत्तया अन्वयः ? यद्याश्रयत्वेन, आश्रयाकांक्षाभ्युपगमप्रसङ्गः । यद्यभेदेन व्युत्पत्तिविरोधः । न हि धात्वर्थस्य कर्तृवाचिनामार्थेऽभेदेना-