पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 स° ४ ] चिक्रमाङ्कन्देवचरितम् |

अगम्यमपि दैवस्य विदन्ति हतपार्थिवाः ॥ १६ ॥
मम शुद्धे कुले जन्म चालुक्यवसुधामृताम् ।
कियन्त्योपि गताः श्रोत्रमैत्रीं शास्त्रार्थविपुषः ॥ ५७ ॥
जानामि करिकर्णान्तचञ्चलं इतजीवितम् |
मम नान्यत्र विश्वासः पार्वतीजीवितेश्वरात् ॥ ५८ ॥
उत्सङ्गे तभद्रायास्तदेष शिवचिन्तया ।
वाञ्छाम्यहं निराक देहग्रहविडम्बनाम् ॥ ५९ ॥
यातोयमुपकाराय कायः श्रीकण्ठ सेवया ।
कृतप्रव्रतमेतस्य यत्र तत्र विसर्जनम् ॥ ६० ॥
तथेति वचनं राज्ञः प्रत्यपद्यन्त मन्त्रिणः |
उचिताचरणे केषां नोत्साहचतुरं मनः ॥ ६१ ॥
ततः कतिपयैरेव प्रयाणैः प्रणयिप्रियः ।
तां क्षोणीपतिरद्राक्षीदक्षिणापथजावीम् ॥ ६२ ॥
सुभद्रा नरेन्द्रेण तेनामन्यत मानिना |
तरंग हस्तैरुत्क्षिप्य क्षिपन्तीवेन्द्रमन्दिरे ॥ ६३ ॥
उद्दण्डा तेन डिण्डीरे पिण्डपङ्किरदृश्यत ।
विमानहंसमालेव प्रहिता पद्मसझना ॥ ६४ ॥
अतिदूरं समुत्कुत्य निपतद्भिः स शोकरैः ।
अराजत घराचन्द्रः प्रत्युत इव ग्रहः ॥ ६५ ॥
तत्रावतीर्य धौरेयो धीराणां धरणोपतिः |
स्नात्वा चण्डोशचरणद्वंद्वचिन्तापरोभवत् || ६६ ॥
अदत्त चापरिच्छिन्नमखिन्नः काञ्चनोत्करम् ।
न कृच्छ्रेोषे महाभागास्त्यागव्रतपरामुखाः ॥ ६ ७ ॥
प्रविश्य कण्ठदलेथ सरित्तोये जगाम सः ।

३३ 1