पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. स° ३] विक्रमाङ्कदेवचरितम् |

नाभीसरोजोगमवारणाय संचारिता चन्द्रमसः प्रमेव ॥ ७० ॥
न भोजराजः कविरञ्जनाय मुञ्जोधवा कुञ्जरदानदक्षः ।
इस्ताम्बुजे तस्य गुणिप्रियस्य सहर्ष माविष्कृत हेमवर्षे ॥ ७१ ॥
तस्पारिलक्ष्मीपरिरम्भकेलिसमुत्सुकप्राज्यभुजद्वयस्य ।
केयूररत्नाङ्कुरकण्टकानां तक्ष्ण्यं कृपाणाहतिभिर्निरस्तम् ॥ ७२ ॥
एकातपत्रोर्जितराज्यलोभाच्छतान्तराणामिव वारणाय ।
स भूभृतामुन्नतवंशभाजां दण्डानशेषाञ्छतथा बभञ्ज ॥ ७३ ॥
गायन्तिस्म गृहीत गौडविजयस्तम्बेरमस्याहवे
तस्योन्मूलितकामरूप नृपतिप्राज्यप्रतापश्रियः ।
मानुस्यन्दनचक्रघोषमुषित प्रत्यूषनिद्वारसाः
पूर्वाद्वे: कटकेषु सिद्धवनिताः प्रालेयशुद्धं यशः ॥ ७४ ॥
आसीत्तस्य समुत्सुकः सुरपतिः संग्राम संदर्शने
सेह किंतु न गाढपीडितधनुष्टंकारमुचैःश्रवाः ।
आरूढः सुरवारणं रणरसकुद्धेभगन्धग्रहा-
तेनाप्येष पलायनप्रणयिना दूरं समुत्सारितः ॥ ७५ ॥
काची पदातिभिरमुण्य त्रिलाण्टताभू-
द्देवालयध्वजपटावलिमात्रशेषा |
लुण्टाकलुप्तनिखिलाम्बरडम्बराणां
कौपीनकार्पणपरेव पुराङ्गनानाम् ॥ ७६ ॥
अत्र द्रावितभूमिपालदलनक्रीडारसोत्थे रखें
कोदण्डध्याभिर्विषन्वते धनध्वानानुकारैर्जगत् ।
वैदेहोरमणस्य रावणशिरश्छेदेप्यशान्तक्रुधः-

III. 77 रसोमरखे Ms. २७