पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

उच्चैः स्थितं तस्य किरोटरलं तेजोधनानामुपार स्थितस्य ।
क्षमामिष प्रार्थयितुं लुलोठ संक्रान्तिमङ्गया मणिपादपोठे ॥ २४ ॥
अत्रान्तरे भूज्जयसिंहनामा पुत्रस्तृतीयोपि नराधिपस्य ।
स्वप्रेषि संवादयशोदरिद्रश्चन्द्रार्धचूडस्य न हि प्रसादः ॥ २५ ॥
सर्वासु विद्यासु किमप्यकुण्ठमुत्कण्ठमानं समरोत्सवेभ्यः |
श्रीविक्रमादित्य मथावलोक्य स चिन्तयामास नृपः कदाचित् ॥ २६ ॥
अलंकरोत्यद्भुतसाहसाङ्कः सिंहासनं वेदयमेकवीरः ।
एतस्य सिंहीमिव राजलक्ष्मीमङ्कस्थितां कः क्षमतेभियोक्तुम् ॥ २७ ॥
करोमि ताम्रयुवराजमेनमत्यक्तसाम्राज्यभरस्तनूजम् ।
तटवयीसंश्रयणाद्धात धुनीष साधारणतां नृपश्रीः ॥ २८ ॥
एवं विनिश्चित्य कृतप्रयत्नमूचे कदाचित्पितरं प्रणम्य |
सरस्वतीपुरसिजतानां सहोदण ध्वनिना कुमारः ॥ २९ ॥
आज्ञा शिरखुम्बति पार्थिवानां त्यगोप्रमोनेषु वशे स्थिता श्रीः ।
तव प्रसादात्सुलभं समस्तं मास्तामयं मे युवराजमायः ॥ ३० ॥
जंगाद देवोथ मदीप्सितस्य किं वत्स धत्से प्रतिकूलभावम् ।
ननु त्वदुत्पत्तिपरिश्रमे मे स चन्द्रचूडाभरणः प्रमाणम् ॥ ३१ ॥
धत्से जगद्वक्षणयामिकत्वं न चेत्त्वमङ्गीकृतयौवराज्यः ।
मोरया पूरितादेवखस्य क्लान्तिः कथं शाम्यतु मजुजस्य ॥ ३२ ॥
आकर्ण्य कर्णाटपतेः सखेदमित्थं वचः प्रत्यषदत्कुमारः।
सरस्वती लोलदुकूलकान्तां प्रकाशयन्दन्तमयूखलेखाम् ॥ ३३ ॥
'वाचालतेषा पुरतः कवीनां कान्त्या मदोयं सविधे सुधांशी ।
त्वत्संनिधौ पाटवनाटनं यत्तथापि भक्त्या किमपि ब्रवीमि ॥ ३४ ॥
विचारचातुर्यमपाकरोति तातस्य भूयान्मयि पक्षपातः ।

III. 25. "दरिद्रच° Ms. - III. 30. समास्तमास्ती Ms. २३