पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विकमाङ्कदेवचरितम् ।

स विक्रमेणाद्भुततेजसा च चेष्टाविशेषानुमितेन बालः 1.
श्रीविक्रमादित्य इति क्षितीन्दोरवाप विख्यातगुणः समाख्याम् ॥ १ ॥
देवस्य चालुक्य विभूषणस्य भार्या यशोजितादेखेन ।
तेनावदातद्युतिना रराज सा साम्राज्यलक्ष्मीरिष विक्रमेण ॥ २ ॥
आलम्ब्य हारं करपल्लवेन पयोधरं पातुमसौ प्रवृत्तः ।
भोगेष्यवाह्या गुणिनो ममेति स्वभावमात्मीयमिवाभ्यधत्त ॥ ३ ॥
मातृस्तनोत्सङ्ग-विलासहारप्रभा प्रविश्येव विनिःसरन्ती ।
तस्यानिमित्त स्मितच न्द्रिका नरेन्द्रनेत्रोत्सय वैजयन्ती |॥ ४ ॥
मुष्टिप्रविष्टारुणरत्नदीपत्रमालता तस्य समुल्लसन्ती ।
विपक्षकण्ठक्षतजानुलिप्ता कृपाणलेखा सहजेव रंजे ॥ ५ ॥
त्यक्कोपविष्टान्यदसौं कुमारः समुत्थितानां सविधे जगाम |
आगामि तेनाधिकमुन्नतात्मा मोषेषु वैमुख्यमिवाचचक्षे ॥ ६ ॥
धात्रेयिकायाः स्मितपूर्वकं यददन्न हुंकारमसौ कुमारः ।
अपूरयत्तेन नृपस्थ कर्णौ पेयूषगण्डूषपरंपराभिः || ७ |
यदुस्थितः सोङ्गलिसंग्रहेण यत्किचिव्यक्तमयोचतापि ।
अभीक्ष्णमक्ष्णोः श्रवसोश्च तेन क्षमापतेः संवननं बभूष ॥ ८ ॥
क्रमेण संपादितचूलकर्मा चालुक्यभूपालधुरंधरस्य ।
बिनोदलीलाकुसुमोच्चयानां स नन्दनो नन्दनतामघाप ॥ ९ ॥
उत्संगमारुह्य नरेश्वरस्य स पांसुलीलापरिधूसराङ्गः ।
निजाङ्गतः संगलितैः परागैश्चक्रे मनः कार्मणचूर्णयोगम् ॥ १० ॥
राज्ञां प्रणामाञ्जलिसंपुटेषु किमप्यवज्ञामुकुलोकृताक्षः ।
तस्यैकहस्ताम्बुरुह प्रणामे कृतार्थमात्मानममंस्त देवः ॥ ११ ॥

III. 10. पशु Ms.; °मासा Ms. m