पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

PANETTE KOPEN विक्रमाङ्कदेवचरितम् । [स°

यस्मिन्परित्रस्त इति क्षितीन्द्रे क्षणं न चिक्षेप कलिः कटाक्षम् ॥१०-
अन्यायमेकं कृतवान्कृती यश्चालुक्यगोत्रोद्भववत्सलोपि ।
यत्पूर्वभूपालगुणान्प्रजानां विस्मारयामास निजैश्चरित्रैः ॥ १०१ ॥
विशीर्णकर्णा कलहेन यस्य पृथ्वीभुजंगस्य निर्गलेन ।
संगच्छतेद्यापि न डाइलश्रोः कर्पूरताडङ्कनिमैर्यशोभिः ॥ १०२ ॥
पाठान्तरम् । कर्णे विशीर्णे कलहेन स्
पृथ्वीभुजंगस्य निरर्गलेन ।
कीर्तिः समाश्लिष्यति डाइलोष
न दन्तताङङ्कनिभाधुना पे ।। १०३ ।।
यस्यासिरत्युच्छलता रराज धाराजलेनेव रणेषु धाम्ना |
..
हप्ता रिमातङ्ग सहस्रसङ्ग मभ्युक्ष्य गृह्णन्निव वैरिलक्ष्मीम् ॥ १०४ ।
यद्वैरिसामन्त नितम्बिनीनामश्रान्तसंता
पकदर्थ्यमाने ।
परामुखं शोषविशङ्कयेव कुचस्थले कुङ्कुमपङ्कमासीत् || १०५ ॥
एकत्र वासादवसानभाजस्ताम्बूललक्ष्म्या इव संस्मरन्ती ।
वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद |॥ १०६ ॥
यं वारिधिः प्रज्वलदस्त्रजालं वेलायनान्तेषु नितान्तमीतः ।
भूयः समुत्सारणकारणेन समागतं भार्गवमाशशङ्के ॥ १०७ ॥
रत्नोत्करग्राहिषु यद्भटेषु सटत्रुटन्मौक्तिकशुक्तिभङ्गया ।
अस्फोटयत्तीरशिलातलेषु रोषेण मूर्धानमिवाम्बुराशिः ॥ १०८ ॥
यं वीक्ष्य पाथोधिरधिज्यचापं शोणाश्मभिः शोणितशोणदेहैः ।
क्षोभादमीक्ष्णं रघुराजबाणजीर्णव्रणस्फोट मियाचचक्षे ॥ १०९ ॥
राशीकृत विश्वमिवावलोक्य वेलावने यस्य चमूसमूहम् ।
अम्भोविभूतेरपरिक्षयेण क्षारत्वमन्धिर्बहु मन्यतेस्म ॥ ११० ॥

1. 100. परित्रस्व Ms. - I. 106. चक्रेषु Ms. - I. 109. ° शोणादेहै; Ms. ·