पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स॰ १८] विक्रमाङ्कदेवचरितम् ।

इष्टापूर्तेष्यतिथिविषये सान्त्वने सेवकाना-
मन्येष्वन्येष्वपि च गहनं किं नु तस्योचितेषु ।
दृष्टादृष्टोपकरणगणप्रापणे यः प्रवीणां
नागादेवीमलभत शुभस्तोमपात्रं कलत्रम् ॥ ८० ॥
अङ्गैस्त्वङ्गत्कनकरुचिभिः कार्मणं लोचनानां
सूरेस्तस्मादजान जगतां शेखरो बिल्हणाख्यः |
सान्द्रौवेंदध्वनिभिरनभिव्यक्तमञ्जीरनादा
मौज्जोबन्धात्ममृति बढ्ने यस्य वाग्देवतासीत् ॥ ८१ ॥
साङ्गो वेदः फणिपतिदृशा शब्दशास्त्रे विचार:
प्राणा यस्य श्रवणसुभगा सा च साहित्यविद्या |
को वा शक्तः परिगणयितुं श्रूयतां तध्वमेत-
प्रज्ञादर्शे किमिव बिमले नास्य संक्रान्तमासीत् ॥ ८२ ॥
चक्रं यस्याक्रियत वदनप्रेक्षि विद्याषधूनां
श्रीवाग्देव्यश्चरणरजसा कार्मणत्वं गतेन ।
याताः सार्धं दिशिदिशि पुनर्बन्धुराः सर्गबन्धाः
कीर्तेः पारिप्लत्रविदलने सौषिदल्ला बभूवुः ॥ ८३ ॥
विद्वत्तायाः स खलु शिखरं प्राय यस्येष्टरामो
ज्येष्ठ भ्राता क्षितिपति शतांस्थानलीलावतंसः |
बक्के काव्यामृतरसभरास्वादशक्तैर्यदीये
दृष्टा देवी सुकविजननी सा प्रयापालिकेत्र ॥ ८४ ॥
यस्यानन्दः समजान यशोभाजनस्यामुजोसौ
स्पर्धाबन्धोदुरकवि मदच्छेदलीलाकुठारः ।
प्रस्थे दौःस्थ्यं हिमशिखरिणः प्राप्य काठिन्ययोगा-
'ज्जाने जिव्हाकिसलयसखी शारदा यस्य जाता ॥ ८५ ॥