पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १५] विक्रमाङ्कन्देनचरितम् । १३५

किम विस्मरसि स्मरातुर प्रभुसंमानमिहान्यदुर्लभम् ॥ ८३ ॥
इति वीरविलासिनीजनस्फुरदाकन्दसहस्रदुर्दिनाम् ।
रणभूमिमसौ विलोकयन्न रिपृष्ठग्रहणान्यवर्तत ॥ ८४ ॥
सदनु नृपतिः प्राप्तः पारं परं समराम्बुधः
सरलितधनुः श्रुत्वा शत्रोः पलायनमाकुलम् |
अहह कृपणस्त्यक्तः कीर्त्याप्यसाविति विव्यथे
प्रकृतिमहतां दुर्वृत्तेष्वप्यहो चटुलाः क्रुधः ॥ ८५ ॥
करितुरगसमृद्धां सार्धमन्तःपुरेण
क्षितिपतिरथ सर्वां शत्रुलक्ष्म गृहीत्वा ।
ललितगतिक रेणु न्यस्त हेमासनस्थः
प्रवरजयपताकां राजधानीं विवेश || ८६ ||
संप्राप्त कुलकण्टकं तमटवीमध्यादबन्ध्यैर्भटैः
कारुण्याद्भुतवाष्प गद्गदवचा : संभाष्य संतोष्य च |
चालुक्यान्वयशेखरोथ शिखरप्रेोलमुक्ताफल -
मालम्बद्युतिपुञ्जदर्शितयशोगुच्छामगच्छत्पुरोम्
"
॥ इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमलदेव-
विद्यापतिकाश्मीरकमट्टश्रीबिल्हणविरचिते
पञ्चदशः सर्गः ॥

XV. 84. फुरदाद° Ms. - XV. 87. नचा: om. Ms.; दाशत Ms. ॥ ८७ ॥