पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

B विक्रमाङ्कग्देवचरितम् । [.स° १३

इतस्ततः शोकरमौक्तिकोत्करं नदाः किरन्तः समदाभिरूमिंभिः ।
प्रतारणायेव समुद्रयोषितां समुद्रद्वेषेण चरन्ति वर्त्मसु ॥ ४६ ॥
क्षपासु संप्रत्यभिसारिकाजनः स्वलत्पदं कर्दमपिच्छिले पथि ।
करोति कार्तस्वरदण्डशङ्कया तडितायामवलम्बनादरम् ॥ ४७ ॥
नताङ्गि लीलाकमलाकरेण से तरंगदण्डेः प्रतिबिम्बितो घनः |
अशेषपानीय समृद्धिसंक्षयाद्वजन्निवार्थित्यमनेन ताडयते ॥ ४८ ॥
गृहीतमासीत्सलिलं वलाहकैः कलान्तरेण ध्रुवमम्भसां निधेः ।
यदेतदीयानि जलानि गृह्णते विधाय कोलाहलमब्धिवल्लभाः ॥ ४९ ॥
समर्पयामास पयांसि निश्चितं कयापि वृद्धवा जलधिः पयोमुचाम्
महागिरिप्रस्थसहस्त्रशोधितं यदम्बु गृह्णन्ति समुद्रयोषितः ॥ ५० ॥
करोति नीरन्धरसोपवृंहणात्तरंगिणीरेष मदङ्गसङ्गिनीः ।
इति ध्रुवं पुण्यतिरिक्तमागतं वलाहकं बालमृगाक्षि वारिधिः ॥५१ ||
विलीय नीलस्तडिदूष्मणा घनः कपालरङ्गः किमजायत क्षितेः ।
जराविमुक्तेष मृगाक्षि लक्ष्यते यदुद्द्रतक्ष्यामलशष्पकुन्तला ॥ ५२ ॥
न वेझि कस्मिन्समधे तथाविधा तरंगिणीभर्तुरकीर्तिरुत्थिता ।
नमोनमः कुम्भभुवे मवेदसौ तदङ्गनानामपि संमुखोद्य चेत् ॥ ५३ ॥
पयोदवन्द गगनस्थलोल्लसत्तडिल्लतादोहदकदमद्युति |
चकास्ति संक्रान्त कलङ्कमम्भसां नमश्युतानामेिव गालनांशुकम्॥५४॥
स्वभावनीलाः कथमत्र लक्ष्यतां प्रयान्ति नोलासु पयोदपाङ्गेषु ।
इति ध्रुवं संप्रति वाजिनो मयामिति गाढ ग्रहमर्कसारथिः ॥ ५५ ॥
क्षणप्रभां नूनमपश्यतः प्रियां तवायमाक्रन्दरवः पदेपदे ।
पयोद यन्त्रोदयते ट्र्यापि ते वियोगिवर्गे तदहो महाद्भुतम् ॥ ५६ ॥

. XIII: 46. समदारूाम ● Ms. XIII. 47. यामलम्बमादरं Ms. - XIII. 51. संगिणी: Ms.Srkris (सम्भाषणम्)XIII. 64. गलनांशुकं Mo.