पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवन्चरितम् ।

पूर्वाशमुखमण्डनत्वमचिराचण्डांशुरायास्पति
द्रागुन्मुद्रय देवि पङ्कजदलच्छायाञ्चने लोचने ॥ ७५ ॥
ये वाल्लभ्यमनङ्गलेखलिखने याताः कुरङ्गोदृशां
ये वङ्गिप्रतिमल्लभलपदवीं पञ्चेषुणा लखिताः ।
जाताः कान्तिविपर्ययादनवधेयाङ्करास्तेथुना
धूलोधूसरताम्रचूडतरुणीचूडावदापाण्डुराः ॥ ७६ ॥
यः सैन्ये स्मरपार्थिवस्य विरहित्यधिनामग्रणी-
ज्योत्सनानिर्झर मुज्झतिरुम जगतां यस्तापनिषपणम् |
सोयं तारकनायकः किमपरं शृङ्गारसंजीवनं
जातः पृष्ठ परागपाण्डुरजरत्कूष्माण्डपिण्डाकृतिः ॥ ७७ ||
खण्ड: क्षपास कियतीष्वपि यः कृशाङ्गि
व्यङ्गोमनङ्गपरशोः सदृशीं बिभातें ।
सोयं निमज्जति जगन्नयनाभिरामः
श्यांमाबंधूषदनचन्दनबिन्दुरिन्दुः ॥ ७८॥
सपदि परिजनस्त्रीविस्तृतोद्वाढलज्जा-
क्रमनमितमुखीभिः खिदाते खण्डिताभिः |
घनममृणविभूषाखण्डनोच्चण्डगण्ड-
स्थल विलुलित बाष्पोत्पीड मेणेक्षणाभिः ॥ ७९ ॥
ये मानद्विरदाशाः कुशलिनः कण्ठेषु ये रागिणां
सोत्प्रासेन बिलासपाशपदवीं पञ्चेषुणा लम्भिताः |
पादास्ते घटमानकोक
मिथुनक्रीडारहः साक्षिणः
क्षोणीकान्त मृणालतन्तुतलिनास्ताम्यन्ति सारापतेः ॥ ८० ॥
स्फुरति निरुपमोर्थस्तन्वते पाकमुद्रा-

XI. 76. ° तांत्रचूडा Ms. The verse is marked as 78. - XI. 79. कीर्डि- ताभि: MB. स° १३३