पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 ऽध्यायः ९ ] भाष्यसहिता | ( १३५) भूरिति सन्मात्रमुच्यते, सुव इति सम्भावयति प्रकाशयतीति व्युत्पच्या चिद्रूपमुच्यते सुवियत इति व्युत्पत्त्या स्वारीत सुष्टु सवत्रियमाणसुखस्वरूपमुच्यते, मह इति महीयते यूष्यंत इति व्युत्पत्त्या सर्वातिशयत्वमुच्यते, जन इति - जनयति इति जनः सकलका- रणत्वमुच्यते, तप इति सर्वतेजोरूपत्वम्, सत्यामिति सर्वबाधारहितत्वम् । एतदुक्तं भवति - यल्लोके स्वरूपं तदोङ्कारवाच्यं ब्रह्मैव आत्मनोऽस्य सच्चिदूपस्य भावादिति, अथ भूरादयः सर्वलोका ॐकारवाच्यब्रह्मात्मकाः न तद्व्यतिरिक्तं किञ्चिदस्तीति व्याहत - योऽपि सर्वात्मकब्रह्मवोधिकाः गायत्रीशिरसोऽप्ययमेवार्थः “आपोज्योतीरसो मृतं ब्रह्म- भूर्भुवः स्वरोम्" आप इत्यामातीति व्युत्पत्त्या व्यापित्वमुच्यते । ज्योतिरितिप्रकाश- रूपत्वम् । रस इति सर्वातिशयत्वम् । अस्मृतामति-मरणादिसंसारनिर्मुक्तत्वं सर्वव्यापि- सर्वप्रकाशकसर्वोत्कृष्टनित्यमुक्तमात्मरूपं सच्चिदानंदात्मकं यदोङ्कारवाच्यं ब्रह्म तदहम- स्मीति गायत्रीमन्त्रार्थः । “गुहाशयब्रह्महुताशनोहं कर्तेदमंशाख्यहविहुतं सत् । विली-~- यते नेदमहं भवानीत्येषप्रकारस्तु विभिद्यतेऽत्र || यदस्ति यज्ञाति तदात्मरूपं नान्य- ततो भाति न चान्यदस्ति । स्वभावसंवित्प्रतिभाति केवला ग्राह्यं ग्रहीतति मृषैव कल्पना" || इति शंकरभगवतः कृतौ गायत्रीसाष्यम् | योगियाज्ञवल्क्यस्तु - ´ तच्छब्देन तु यच्छन्दो वोद्धव्यः सततं बुधैः । उदाहते तु यच्छन्दे तच्छन्दः स्यादुदाहृतः ॥ १ ॥ सविता सर्वभूतानां सर्वभावान्प्रसूयते । सवनात्पावनाच्चैव सविता तेन चोच्यत ॥ २ ॥ दीव्यते क्रीडते यस्माद् द्योतते रोचते दिीव | तस्माद्देव इति प्रोक्तः स्तूयते सर्वदैवतैः ॥ ३ ॥ चिन्तयामो वयं भर्ग धियो यो नः प्रचोदयात् । धर्मार्थकाममोक्षेषु बुद्धिवृत्तीः पुनःपुनः ॥ ४ ॥ भ्रस्जपाके भवेद्धातुर्यस्मात्पाचयते ह्यसौ | भ्राजते दीप्यते यस्माजगञ्चान्ते हरत्यपि ॥ ५ ॥ कालाग्निरूपमास्थाय सप्तार्चिः सप्तरामभिः । भ्राजते यत्स्वरूपेण तस्माद्दर्गः स उच्यते ॥ ६ ॥ भात भषियते लाकान् रेति रञ्जयत प्रजाः । गत्या गच्छत्यजस्रं यो भगवान्भर्ग उच्यते ॥ ७॥ वरेण्यं वरणीयं च संसारभयभीरुभिः । आदित्यान्तर्गतं यच्च भर्गारव्यं वा मुमुक्षुभिः ॥ ८ ॥ जन्ममृत्यु विनाशाय दुःखस्य त्रिविधस्य च । ध्यानेन पुरुषो यस्तु दृश्यः स सूर्यमण्डले ॥ ९ ॥