पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 SANDHYĀKARA NANDL शिष्टारिष्टैकहशि विराधकबन्धापदश्च दधमाने । दक्षिणका[ष्ठा] श्रिति गतपञ्चवटोसन्निवेशे च ॥ ३४ ॥ शिष्टेत्यादि । शिष्टा शेषीकृता अरिष्टय काकस्य तस्यैव एका दृष्टियेन विराधो (रोधि) नाम राक्षसः कबन्धश्च तयोरापदं मृत्युं दक्षिणामगस्त्यचरितां काष्ठां दिशं (सं) तिबतिमतः प्राप्तः पञ्चवटो (टो)नामाश्रमः येन । अन्यत्र | शिष्टा अनुशिष्टा अरिष्टैकदृशोऽशुभैकदृष्टयो दारुणकर्माणो यस्मै विराधिकां कदर्थयिन्त्र बन्धापदं बन्धनविपत्तिं दक्षिणानां मरलानां काष्ठां उत्कर्ष आश्रितेऽनिक्रान्तः पञ्चानामपि वराटानां स (श ) मावेशो यस्य ॥ ३४ ॥ विग्रास्यतयास्तवति बहुस्वपलादिस्वसारं च । खरनिग्रहं दधाने विधाने दूषणविको च्छेदम् ॥ ३५ ॥ विग्रेत्यादि । विग्रास्यतया विगतनासिकामुखतया लक्षित वडखां बहुसुजन्मनां पलादिनो राजमस्य रावणस्य स्वमारं भगिनों शूर्पनखां अस्तवति निराकृतवति खरनाम्रो राक्षसस्य निग्रहं वधं नामा राक्षस: चिकः चिशिराश्च राक्षसः तयोरुच्छेदं विनाशं । दूषण- अन्यत्र विग्राम्यतथा विगतभच्यतया स्वम्यात्मनः पलादि मांसशोणितादिकं स्वस्य सारं सामर्थञ्च वह यथाभवति तथास्तवति । खरो दुःसहः निग्रहोऽपकार: भक्तनिषेधादिकं दूषणचिकं ते दोषास्त्रयो रागद्वेषमोहा यदा का (यिकवा] चिकमानमाः तदुच्चेदः तत्परिहाणं ॥ ३५ ॥ विजनस्थानव्यूहे भूतनयात्राणयुक्तदायादे । विद्युदिलासचञ्चलमायामृगतृष्णयान्तरिते ॥ ३६ ॥ विजन इत्यादि । विच्छु(?) तो जनस्थान इति ख्यातनाम्नि सन्निवेशे स्थितो रावणव्यूहो येन । भूतनयाया: मौतायास्त्राणे युक्तो दायादो भ्राता लक्ष्मणो येन । मायामृगः कनकम्मृगरूपो मारीच तय तणया लब्धत्वेन अन्तरिते व्यवधानहिते राघवे मति । अन्यत्र विजने स्थानमवस्थानं तेन व्यूहो विगत ऊहो यस्य तस्मिन् रामपाले भृतं सत्यं नयो नीतं तथोर(रर)क्षणे युक्तः प्रसक्तो दायादो महीपालो यस्य माया लक्ष्म्या मृगतृष्णया ममायं लक्ष्मों ग्रहोष्यतीति मुग्धतथा अन्तरिते तिरोहिते भूमीगृहादिगुप्तक्षिप्ते रामपाले सति ॥ ३६॥ माथिध्व (ध)निना शङ्कित विप (पा) दो भर्त्तुर्भुवः प्रभूतायाः । निकृतिप्रयुक्तितो रक्षितरि कनिष्ठे तथापने ॥ ३१ ॥ मायत्यादि । मायिनो मारीचस्य ध्वनिना लक्ष्मण त्रायस्खेत्यार्त्तनादेन भर्तुः रामस्य शङ्किता विपद्यया तस्याः शङ्कितविपदः भुवः पृथ्वीतः प्रभृता (या:] सौताया: निकृतिप्रयुक्तित: भर्त्सन (न:) प्रयोगतः 'अनचरेण कनिष्ठे लक्ष्मणे रचितरि रक्षार्थ स्थापिते । तथा तेनाकारेण तामेव दिशं प्रपन्ने गते सति । १ Secms superfluons.