पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. प्रथममुपरते पितरि महौपाले भ्रातरि क्षमाभारम् । विभ्रत्यनौतिका[रंभ]रते रामाधिकारितां दधति ॥ ३१ ॥ प्रथममित्यादि । प्रथमं दण्डकारण्यगम[न]काले राघवस्य शोकात् पितरि महीपाले पृथ्वौपतौ दशरथ उपरते मति भ्रातरि भरते क्षमाभारं पृथ्वीभार अनीतिकार अविद्यमान ईतिकार उपलवकारों यत्र तं विभ्रति सति । रामाधिकारितां रामस्य सिंहासनारोपि[त] तत्पादुकाइयरूपेण अधिकारितां दध (धा)ति । तथा रामपालपक्षेप्यनेन कुलकशेषलोकाष्टकेन वरेन्द्री दिव्योकेन ग्टहौतेति व्याहरिष्यते । ननु च राज्यभारं विभ्भ्राणस्य सोमशौर्यशालिनो रामपालस्य परेण भूमिरादीयत इति जीवतो' व्याघ्रस्य दंद्रा- ङ्कुरोत्पाटनोत्साहसाहसिक्यमिदं कथङ्कारं आरम्भगोचरं इति शङ्कां निराचिकीर्षुः पूर्व्वकथामवतारयन्नाह | प्रथममित्यादि । प्रथमं पूर्वं पितरि विग्रहपाल उपरते मति महीपाले भ्रातरि क्षमाभारं भूभारं विभ्रति मति अनौतिकारंभरते अनीतिक नीतिविरुद्धे आरम्भे उद्यमे रते मति महोपालः षाड्गुण्य- यस्य मन्त्रिण गुणित मत्रगुणयन् उपष्टम्भारभटीमात्राददॊषत्ग्रहणेन मिलित[[]नन्तसामन्तचक्रचतुर चतुरङ्ग- बलबल यितबद्दल मद कल करितुर गतरणि चरणचारुभट चमूसम्भार संरम्भ निर्भरभयभौत(भिर) रिक्तमुक्त कुन्तल पला- यमानविकलमकलमैन्येन स्वतः च्यातिशयमासेदुषा सह सहसैव बलदिपर्य्ययकोटिकष्टतरसमरमारभ्य निर- मज्जत । रामाधिकारितां रामपालस्य तस्मिन् समये निगड़बद्धस्य आधिनी व्यथा तत्करणशीलत दधति एतदग्रे स्फुटयिव्यति ॥ ३१ ॥ 29 रामेतु चित्रकूटं विकटोपलपटलकुट्टिमकठोरम् | भूमौमृतमापतिते तपस्विनि महाशयेऽसहने ॥ ३२ ॥ राम इत्यादि । चित्रकूटं भूमिभृतं पर्व्वतं तपखिनि गृहीतवानप्रस्यव्रते । अन्यत्र । चित्रकूटं अद्भुतमायं शिलाकुट्टिमवत् कर्कश भूभृतं (त) महीपालं तपस्विनि अनुकम्पार्हत्व- दशापत्रे |॥ ३९ ॥ अपराचाधिवसति कष्टागारं (र) महावनं घोरम् । इतविधिवशेन वायसकुशौलताभेद्यकुचजानौ ॥ ३३ ॥ अपरेत्यादि । अपरेण भ्रात्रा लक्ष्मणेन मह कष्टं कृछ्रं महावनं महारष्यं अधि[a]तिमति दुर्दैव वशेन वाय (यय) सस्य काकस्य कुत्सितशौलतया दुश्चेष्टया [भेद्यो] दो विदोण कुचौ यस्याः सा तादृशी जा (या) या यस्य । अन्यत्र | अपरेण भ्रात्रा (ता) सुरपालेन मह कष्टागार कारागृहं महदवनं रक्षण यत्र दुर्दैवाधीने नवा नूतनायसौ लोहसम्बन्धि[नी] कुशी निगड़रूपा मा लतेव जंघातरुविदूरबेष्टनात् तथा भेदिनी विदो कुचे अंमकोटनी जानुनी श्रष्ठोवती यस्य || ३३ ॥ १ Comm. जौवित ₹ Comm. रामपाल |