पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 SANDHYAKARA NANDI. लोकान्तरप्रणयिणो दुर्नयभाजोऽग्रजन्मनो व्यसनात्। पतितान्धकारवत्यनुभावादुदहारि गोतमौ तेन' ॥ २२ ॥ लोकेत्यादि । राघवो हि अवतीर्णः । तस्य लोकान्तरं स्वर्गः तत्रत्यस्य अग्रजन्मनो ज्येष्ठ भ्रातुरिन्द्रस्य व्यसनात् पतिता स्वामिशापभ्रष्टा अन्धकारप्रविष्टा गोतमौ गोतमवधूरहया उदहारि उद्धृता । अन्यत्र परलोकगतस्व ज्येष्ठभ्रातुर्महोपालस्य युद्धव्यमनात् मिलिता गो: पृथिव्याः तमौ रात्रिः । अन्धकारवती उन्मूलिता जगदन्धकार (रः) विध्वंसात् । “अस्तमपि गोतमोदार महस्तदनेन पुनरूहे” इत्युत्तरार्द्ध- पाठान्तरे गोतमो मुनिः तत् पूर्व्वसिद्धं दारमहः कलत्रोत्सव इन्द्रश्य व्यसनात् अस्तं गतमपि पुनरनेन प्रापितः । अन्यत्र गो[:] पृथिव्याः तमोऽन्धकारं दारयतीति गोतमोदार (रः) । अहस्तेजो अहर्दिनम्वा महीपाल- व्यसनादस्तं गतमपि पुनरनेन प्रापितः । अनेन पुनरुढम् ॥ २२ ॥ परिकलितकुशिकनन्दनसदाश्रमसम्बृद्धसम्पदोरामः । कृतताड़कोद्भव विधूननश्च बर्द्धितसुवाहुधामा च ॥ २३ ॥ परिकलितेत्यादि । परिकलितः कौशिकस्य सन् पूज्यमान आश्रमस्तेन समृद्धप्रमोदः । शतं ताड़कासुतस्य विधूननं येन । तथाहि वायव्यास्त्रव्यतिकर निरालम्बनस्ताड़केन वर्द्धितं छेदितं सुबाहुनानो राक्षसस्य धाम वपुर्येन । अन्यत्र परिकलिता अभ्यस्ता कुशिका: कुशौ खङ्गादिलोहविकारा यैर्नन्दनैः पुत्रैः राज्यपालादिभिः तेषां मदा मर्व्वदा श्रमेणास्त्रगुण निकया समृद्धसम्पदः । कृतः सुतः ( कृतं सुतं ) तस्य ताड़कानां श्रघातकानां उद्भवस्य विधूननः नेता वर्द्धित शोभनयो र्भुजयोधम तेजो येन ॥ २३ ॥ पृथुरक्षोनौकं धर्म्मविप्लवं विप्रहर्षकोत्सः । 'सत्कृताध्वरोहितजगद्दधइलयितजाकोदण्डम् ॥ २४ ॥ पृथु इत्यादि । स राघवः बलयित [ज्य] कोदण्डं बलयितमोबकं कोदण्डं दधत् रक्षोनीकं राजमसैन्यं पृथु महत् । धर्मे विशत्र इति धर्मविप्लवं अर्थात् संचितवान् । अतएव विप्रहर्षक: विप्रान् ऋविजो हर्षितवान् मत्कृताध्वरः सत्तो यथाविधि सम्पादितोध्वरो येन । हितजगत् हितं भृतं जगत् येन । अन्यत्र म रामपालः दण्डं दधत् धर्मविश्लवं अनोकमलक्ष्मोकं अपवान् | पृथुरक्षः महतौ रक्षा यस्य | विप्रह(क) र्षक: विगतमह (क) र्ष: जितारिषड्वर्गवात् । मत्कृताध्वरोहि[त] जगत् मद्भिः कृतसन्धानं कृतेऽध्वनि वा रोहितं आरोहितं जगत् येन | बलयितज्यकः बलयिता बेष्टिता अवगूरिता या सामन्तचक्रोपक्रममेव चक्रावर्त्तन पर्खटिता ज्या पृथ्वी येन ॥ १४ ॥ ₹ There is another reading स्तमपि गोतमोदार महतदनेन पुनरूहे । २ पुनरुनेन प्रापितः is not needed here. It appears that the scribe simply repeated what he wrote a little before. ३ Comm वायस्याकास्त्र । 8 Text has स तु सत्कृता; स तु is superfluous.