पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिविवेकानन्दोपदेशद्विशती ( ज्ञानमहिमा ) गम्यमुच्चतमं तत्त्वं जीवनस्य श्रुतं स्मृतम् । तत्त्वमन्वेषय भ्रातः ! ध्रुवं लाभो भविष्यति ॥ १५५|| ज्ञानं परं प्रतिगृहं प्रविशेदितीत्थं चक्र प्रवर्तयितुमिच्छति मानसं मे । येन स्त्रियश्च पुरुषाश्च जगत्यमुष्मिन् स्वात्मेष्टनिर्णयविधिं परिभावयन्तु ॥१५६|| (सेवाभावः ) यथाहं भारतीयोऽस्मि तथा संसारसेवकः । संदेह कल्पनाजालप्रसारोऽत्र निरर्थकः ||१५७|| ( सदाचारः ) आचारवान् भव सुहृद् बलवान्कृतान्त- स्याह्वानतोऽपि गतभीरमलान्तरस्त्वम् । व्यर्थैव धार्मिक विवादपरम्पराऽऽस्ते दुष्कर्मजातमिति कातरकार्यमेतत् ॥ १५८ ॥ ( सत्यं उपकारश्च ) अपकार।दुपकारोऽसत्यादपि चातिरिच्यते सत्यम् । अनन्तगुणमेतत्खलु यस्यास्ते तस्य जीवितं सफलम् ॥ १५६|| ( भारतोन्नतिः) भारताभ्युदयोऽवश्यं भवितेशविधानतः । अरुणोदयवेलासावुत्थातव्यं गता निशा ! ||१६० ।।