पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थुगाचार्य - विवेकानन्दः तथा पतितानां कण्ठं निष्पीडयति संसारेऽन्यः कोऽपि धर्मस्तथा नाचरति । भगवान् मह्यं प्रादर्शयत् यदत्र धर्मस्य कोऽपि दोषो नोस्ति " २०९ अपरस्मिन्नेकस्मिन् पत्रे स आलिखत्–“आगामिपञ्चाशद्वर्ष- पर्यन्तमन्यान् सर्वान् देवी-देवान् मनसो निष्कासयत । एकमात्रो जाग्रदेवः अस्माकं जातिः । अस्य विराडदेवस्य पूजैवास्माकं सर्वतः प्रथमं वयं यां देवतां पूजयेम साऽस्ति प्रधाना पूजा भवेत् । अस्माकं देशवासी ।” स देशस्य दरिद्रताया दूरापसरणार्थ कार्यकारिशिक्षायाः योग्यं प्रबन्धं कर्तुं देशवासिन उद्धद्धानकरोत् । सार्वभौम-वेदान्तवाण्याः प्रचारस्य कृते मद्रासिशिष्येभ्य: 'ब्रह्मवादिन्'-पत्रिकायाः प्रकाशनार्थं रूप्यकाणि सम्प्रेष्य तान् उत्साहितान् अकरोत् । स्वामिन उद्बोधन- वाणी आकाशे विलीना नाभूत्, प्रत्युत भूयसां हृदयेषु दुर्जयानुप्रेरणा- रूपेण प्रविष्टा बभूव । रोमाञ्चितभारतं तदीयोदात्ताह्वानस्य समीचीन- मुत्तरं ददौ । मद्रासे कलिकत्तायामिति केन्द्रद्वयं स्थापितमभवत् । अन्यच्च अन्यः अनेकप्रकारैः तस्य गुरुभ्रातरः संघटनमूलकप्रचार- कार्ये व्रतिनो बभूवुः । स्वामिनो मनसि एकं महाशक्तिशालिनं संघं स्थापयितुं परिकल्पनाऽऽसीत् । जातीयोन्नतये संघशक्तेः कियत् प्रयोजनमस्ति इति स पाश्चात्त्यदेशेषु गत्वा सम्यग्रूपेण अजानात् । स एकस्मै गुरुभ्रा लिलेख “तावकीनायां जातौ संघबद्धतया कार्य- शक्तेर्नितान्ताभावोऽस्ति । सः अभाव एव सर्वानर्थस्य मूलमस्ति । पञ्च मनुष्याः सम्भूय एकं कार्यं कर्तुं सम्मता न भवन्ति । संघटनार्थमावश्यकता अस्ति आज्ञाकारितायाः ।..." अनयैव शैल्या स्वामी अमेरिकायामुपविश्यैव भारते निजकार्यक्षेत्रं प्रस्तोतुं संलग्नः । अत्यधिकपरिश्रमात् तथा दुश्चिन्ताभिश्च स्वामिनः शरीरम् इय- करणस्य १४