पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ सम्मेलनात्पश्चादेव अमेरिकायां स्वामी सम्यकप्रकारेण कार्यान रम्भमकरोत् । प्रथमं भूमिकर्षणम्, पश्चाद् बीजवपनम् । e किन्तु स्वामि-विवेकानन्दम्य अनेन विराट्सम्मानेन एवं साफ- ल्येन तद्देशीयाः प्रतिनिधयः अत्यर्थम् ईर्ष्यान्विता अभूवन् । ते स्वामिनः यशः हीनं कर्तुं कीदृशीमपि चेष्टाम् अनर्हां नामन्यन्त । ते मिशनरी - जनैर्मिलित्वा मिथ्याप्रचारमकुर्वन् । परन्तु स्वामी तत्र ध्यानं न दत्तवान् । स निजमार्गे अग्रेसरन अवर्तत । तदानीं स एकस्मै सती- र्थ्यायालिखत् - "भयं कस्मात् ? केषां भीतिर्जायते ? भ्रातः ! इमे मिशनरीजना उद्घुष्योद्घष्य तूष्णीं जाताः, अनेनैव क्रमेण समस्तः संसारोऽपि भविष्यति ।” ईसा-रुधिरं धरित्रीमुर्वरां चकार | बाधा- मत्याचारं च स्वामी सहर्ष स्वीचकार । - स्वामि- विवेकानन्दस्य ये जना विरोधमकुर्वन् ते न केवलं दया- पात्राणि, अपि तु धन्यवादपात्राण्यपि सन्ति । तेनैव संसारोऽजानात् यत् स्वामी विवेकानन्दः 'भगवत्प्रेरितो दूतोऽस्ति' इति । * सोऽजानात् यत् – “पूर्ण मौनमेव योग्यः प्रतिवादोऽस्ति ।” “झञ्झा वेगशाली

  • स्वामिनः एकस्मिन् पत्रे संदृश्यते – “इदमस्ति चरित्रस्य माहात्म्यम्,

पवित्रतायाः प्रभावः, सत्यस्य प्रभावः तथा व्यक्तित्वस्य प्रभावः, यावत्पर्यन्तम् इमे मन्निकटे निवसन्ति तावत्पर्यन्तं कोऽपि ममानिष्ट कर्तुं न शक्नोति । प्रभुः मया सह सदा निवसन् अस्ति । निश्चितरूपेण ज्ञायतां यत् प्रभुः मम हस्त गृहीत्वा नयन् गच्छति ।”