पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ युगाचार्य - विवेकानन्दः सृष्टेः अनादित्वं, आत्मनः तथा आत्मन्यवस्थितस्य परमात्मनः सम्बन्धे वेदस्य गम्भीरम् उपदेश येन केनापि प्रकारेण इमे जनाः अतिशीघ्रं गृह्णन्ति । पञ्चाशद्वर्षाभ्यन्तरे संसारस्य सर्वेऽपि शिक्षिता लोकाः अस्माकं पवित्रवेदस्य शिक्षानुसारं आत्मनि तथा सृष्टौः, द्वयोरपि अनादित्वे विश्वासं करिष्यन्ति । एवम् ईश्वरमात्मन एव सर्वोच्चां पूर्णावस्थां स्वीकरिष्यन्ति । अद्यप्रभृत्येव एतेषां सर्वे विद्वांसः पुरोहिताः अनयैव विधया बाईबल व्याख्यां कर्तुमुद्यताः । भारतवर्षे यान् मिश- नरीयान् यूयं पश्यथ, ते केनापि प्रकारेण ईसाईधर्मस्य प्रतिनिधयो न सन्ति । ममैष सिद्धान्तः यत् पाश्चात्त्यानाम् इतोऽप्यधिका धार्मिकी शिक्षा अपरिहार्या अस्ति तथा अस्माकम् इतोऽप्यधिकाया: ऐहिकोन्नते- रावश्यकता अस्ति ।...”