पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः ।। वर्मणां शरीराणां स्वेदाद्यशुद्धानां जलं, प्रच्छन्नपापानामघमर्प- णादिजपः, मनसो निषिद्धचिन्तादुष्टस्य सत्यं साधुसङ्कल्परूपं शुद्धिकृत् उच्यते । ज्ञानस्य शुद्धिहेतुत्वं प्रागुक्तं विवृणोति-भूता. स्मनो भूतेषु शरीरात्मकेष्वात्मनो बुद्धिमतस्तपोविद्ये भ्रमनिवृत्या. स्मकशुद्धिहेतू । तपःपदेन ब्रह्मज्ञानोपयोगि अनशनादि, विद्या- पदेन चौपनिषदं ज्ञानमभिहितम् । बुद्धः संशयविपर्ययवतो वुद्धि. तत्वस्य प्रमारूपं ज्ञानं विशोधनम् । क्षेत्रज्ञस्य तपोविद्याविशुद्धस्य साक्षात्काररूपादीश्वरज्ञानात्तु परमा शुद्धिः संसारलेपाभावरूपा धर्मशास्त्रकारैरनुमता ॥ ३१-३४ ॥ इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजित- चरणकमलश्रीमन्महाराजाधिराजमधुकरसाहिसूनुश्रीमन्महा. राजचतुरुदधिवसुन्धराहृदयपुण्डरीकविकांसदिनकर- श्रीवीरसिंहदेवायोजितश्रीहंसपण्डितात्मज. श्रीपरशुराममिथसरिसूनुसकलाविद्या. पारावारपारीणधुरीणश्रीमन्मित्र- मिश्रकृते धीरमित्रोदयाख्याने श्रीयाज्ञवल्क्यव्याख्याने आशौचप्रकरणम् ।। (मिता० ) अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणो। कांस्तथैवात्र प्रकरणे वक्ष्यमाणांश्च शुद्धिहेतूननुकामति-- __ काल इति । यथान्यादयोऽमी सर्व स्वविपये शुद्धिहेतवस्तथा कालोऽपि दशरात्रादिकः। शास्त्रगम्यत्वाच्छुद्धिहेतुत्वस्य । अग्नि- स्तावच्छुद्धिहेतुः । यथाभ्यधायि 'पुनः पाकान्महीमयम्' इति । कर्म च शुद्धिनिमित्तं, यथा वक्ष्यति तथा "अश्वमेधारभृथस्त्रानात्' इति । तथा मृदपि शुद्धिकारणं, यथा कथितम्-'सलिलं भस्म मृदापि प्रक्षेप्तव्यं विशुद्धये' इति । वायुरपि शुद्धिहेतुः, यथोदीरितं 'मारुतेनैव शुध्यन्ति' इति । मनोऽपि वाचः शुद्धिसाधनं, यथा-