पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी 9 वसाङ्कर्यप्रसङ्गात् । अन्यस्वभावानुपरागश्च स्तम्भादेः किन्निबन्धन इत्य- न्वेषणे तत्रापि भेदसद्भावादित्येवोक्तिर्युक्तिमालम्बते । से चाद्यापि मनोर- थायमानस्वभाव इति प्राचीन एव दोषानुषङ्गः । किञ्च स्वरूपमेव भा- वानां भेदश्चेद् इदं रजतमित्यादिभ्रान्त्युल्लेखो दत्ताञ्जलिः स्यात् । तत्र हि शुक्तिकायाः स्वरूपं व्यक्तमेवाध्यक्षीक्रियते, रजततयाध्यवसीयते च । अख्यातिवादपदवीप्रस्थानेऽपि भ्रान्त्यात्मिकायाः प्रतीतेरेवापलापो न पुनस्तदनुगुणस्य व्यवहारस्यापीत्यभ्युपगन्तव्यम् । अपिचायं भेदो भा- वेष्वेव मासमानस्तत्तद्भावेभ्यः स्वयं भिन्नो वा न वा । न चेद्, अभेद एवेत्यापतति । भिन्नश्चेत्, सोऽपि भेदः कथमिति निरूप्यमाण उपर्युपरि भेदपरम्परापरिग्रहप्राचुर्यादनवस्थामेवोपस्थापयति । भेदश्चायं प्रकृत्या भि- न्नस्य वा स्याद्, उताभिन्नस्यापि भावस्य । यदि भिन्नस्य, किमनेनागन्तु- केन भेदेनँ । कृतकारित्वं च महान् दोषः । अभिन्नस्य चेद् व्यक्तं व्याघातः स्यात् । अन्यच्चेदमालोचनीयम् । स्तम्भात् कुम्भो भिन्न इत्या- दिहि भेदव्यवहारः । तत्र भेदविषयनिर्देशार्थमनयोर्द्वयोरप्येकहृदयक्रोडी - कार्यतया भाव्यम् । तथाभावे च तयोः, , " इदमस्मादिह पृथगिति बहिरङ्गुल्यभिनयक्रियाकल्पः । अन्तर्गतस्वभावस्तात्त्विकमनयोरभेदमाचष्टे ॥” इत्यादिस्थित्या वस्तुभेदस्वभावत्वादभेद एव प्रतितिष्ठति । प्रयोगश्चात्र- यत् प्रकाशते तदेकप्रकाशात्मकं प्रकाशमानत्वात् । अहम्प्रत्यवमर्शव- दिति । अत्र चोपाविविधूननायुपन्यासो ग्रन्थगौरवायेति वन्ध्योऽयं भेद- वादास्वाददोहलप्रयासः । ननु स्तम्भः कुम्भ इत्यादिरन्योन्यमसङ्कीर्णो व्यवहारः कथमिति चेद्, भेदाभेदमर्यादयेति ब्रूमः । पारमेश्वरो हि प्रकाशः सर्वत्रापि प्रपञ्चे निर्विशेषमुन्मिपति । तस्यैव स्वातन्त्र्यात् | सागरतरङ्ग- भङ्गया स्तम्भः कुम्भ इत्यादिपृथग्व्यवहारोपपत्तिश्च । तर्ह्यशतोऽत्रापि मेदवाददूषणापत्तिरिति चत् । न । शुद्धो हि भेदस्तादृशमपवादमनुभवति । 13 'णं' क. पा. २. 'सा' ग. पाठ:. ३. 'नाक' क. ग. पाठ: ४. 'हादो' क. ख. पाट: ५. 'गोपपत्ति' ग. पाठ: