पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । श्रीतन्त्रालोकेऽपि परिमलोपेता ! “तस्य स्वतन्त्रभावोऽयं किं किं यज्ञ विचित्रयेत् इति । एनीमेवावलम्ब्य प्रलयकेवला विष्णुः सूर्य इति प्रमातारः प्रथन्ते । यद्यपि ११ “वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् इति श्री त्रिंशिकोशास्त्र स्थित्या मायायाः कलाविद्यौद्यन्तर्भावेनोन्मीलनौचि- त्यं, तथापि 99 ४७ "कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् ।" इत्युकृतस्य श्रीपराचीजप्रथमांशस्याभिव्यक्त्यर्थमेवं पृथक्कृत्योच्यते । १. 'ता' ग. पाठः. न्यत्वे' क. ख. पाठः ५. 'ससा' ख. पाठ:. ननु कथं भेदवादापवादः, येन विश्वस्वभावस्यैकरस्यं स्यादिति चेद्, उच्यते । कोऽयं भेदो नाम । किमन्योन्याभावः, उत वैधर्म्यम्, आहोस्वित् स्वरूपमेव । नाद्यः । स खलु स्तम्भः कुम्भो न भवति कुम्भ- श्च न स्तम्भ इत्येतादृशेन वपुषा द्वयोरन्योन्यतारूपमुपाधिमपेक्ष्यैवोत्पद्यते । सच विचार्यमाणस्तयोरन्यत्वे वीस्यमान एवाविर्भवति । तच्चान्यत्वं पदा. र्थानां स्वभावो वा, भेदनिवन्धनः कश्चिदुपाधिवी । यद्याद्यः, तर्फेकत्वा- क्रान्तानामपि भेदः प्रसज्येत । द्वितीयश्चेत्, तदन्यत्वं भेदे सत्येवोपप- द्यते । मेदश्च नाद्यापि सिद्धस्वरूप इत्यात्माश्रयत्वमन्योन्याश्रयत्वं वा स्यात् । न द्वितीयः । वैधर्म्यं नाम स्तम्भादीनां स्तम्भत्वकुम्भत्वादि- रूपोऽर्थः । तत्र स्तम्भेष्वेव स्तम्भत्वं कुम्भत्वं च कुम्भेष्वेवेति यदि कि- ञ्चिन्नैययं, तदुपपद्येत भेदः । नियामकं च न किञ्चिदालोक्यते । नन्व- स्ति दारुमयत्वं पृथुबुध्नोदराकारत्वं च तद्वयवस्थापकमिति चेद्, न । तदसाधारण्येनाप्रतीतेः । तादृशी च प्रतीतिः स्तम्भादीनां भेदे सत्येव सङ्ग- च्छेत । स च साध्यकोट्यारूढ इति पूर्ववदात्माश्रयत्वाद्यापातः । किञ्च दारुमयत्वादीनामपि भेदस्तत्तद्वै धर्म्यात्मक इति परमाण्वन्तं पर्यालोचना- यामामूलविपर्यासिन्यनवस्था स्यात् । नापि तृतीयः, स्वरूपं हि स्तम्भादेः स्वमनन्यस्वभावानुषक्तं रूपमिति वक्तव्यम् । अन्यथा भावानां स्वभा- २. 'कास्थि' ख. पाठ:. ३. 'द्यान्त' ग. पाठः ४. 'रन्या-