पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी यतः शब्दस्पर्शीधनुभवस्तदनुभविवृद्वारा महाप्रकाशपर्याये क्वचिन्महानु- भवितरि पर्यवस्यति । तत्परिज्ञानं च प्रयोजनम् । तत्प्रयोजनं च विम- शस्वरूपसिद्धिः । तस्या अपि प्रयोजनं भोगापवर्गलक्षणंः स्वस्य माह्रै- श्वर्योल्लासः । उपरि च न प्रयोजनान्तरापेक्षा, तस्यैव प्राप्यतयाभिलष्य- माणत्वादनवस्थाप्रसङ्गाच्च । यच्छुतिः- - 'आत्मलाभान्न परं विद्यते' इति । संबन्धश्च तन्त्रस्य प्रतिपाद्यस्य चाभिधानाभिधेयभावः । प्रतिपाद्यस्ये चिद्विमर्शस्य चोपायोपेयभावः तयोरन्योन्यं कार्यकारणभूतत्वात् । तन्त्रस्य प्रतिपत्तॄणां च सम्बन्धो गुरुपर्वक्रमात्मा व्यक्तमुपलभ्यते, नत्वा नित्यशुद्धौ गुरोश्चरणावित्युपक्रान्तत्वाद्, 'देसिअकडक्खपादे' इत्युपसंह- रिष्यमाणत्वाच्च । तत्त्वदृष्ट्या तु स्वात्मरूप एव सर्वोऽयं सम्बन्धः । यथा श्रीखच्छन्दे – 5 "गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥” इति । यथा चोक्तमाचार्याभिनवगुप्तनाथपादैः- “सदाभिनवगुप्तं यत् पुराणं च प्रसिद्धिमत् । हृदयं तत् परोल्लासैः स्वयं स्फूर्जयनुत्तरम् ॥" इति । स्वयमवगतार्थतत्त्वस्य च तन्त्रकृतः कारुण्योत्कर्षप्रवृत्तेनें सर्वजन- सामरस्यलक्षणेन ताटस्थ्येन ग्रथनामीत्यविच्छिन्नाहम्भावस्वभावोत्तमपुरु- पव्यपोहाद् ग्रथनातीति तन्त्रोपपादने संरम्भोद्भावनेन विनेयवर्गस्य तन्त्रप्रवृत्त्यान्मुख्यं विधीयमानत्वेनार्थतः सिद्धम् । एतेन तन्त्रकृतः प्रसिद्ध- प्रभावस्य संभावनाप्रत्ययोत्पादनेन प्रतिपत्तजनप्रवृत्त्यर्थ नामोपादानमि- त्यप्यासूत्र्यते । प्रतिपत्तॄणां चोक्तमर्थं प्रत्यधिकारितायां न कश्चिन्नियमः । यदुक्तं श्रीस्पन्दे-- “लब्ध्वाप्यलभ्यमेतज्ज्ञानधनं हृद्द्रुहान्तकृतनिहितैः । वसु गुप्तवच्छिवाय हि भवति सदा सर्वलोकस्य ॥” १. 'णस्य स्व' ग. पाठः, २. स्य विम', ३. 'तपा' क, पाठ: ४. त्यनारतम्' ग. पाठ:- ५. 'न सा', ६. 'ते' क. पाठः,