पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । विश्ववृत्तान्तव्यतिकर क्रोडीकारकोविद मौत्तरमतिमहत् प्रमेयमितिशब्देनो- द्भाव्यते । तदखिलमपि शिवं शिवपरामर्शोपायभूतत्वात् शिवस्वरूपा- दुत्पन्नत्वात् शिवस्वभावाविभिन्नत्वाच्च शिवमयमेव । अत्र च 'णमिऊण णिच्चसुद्धे गुळुणो चळणे' (लो० १) इत्यारभ्य 'देवो उवदिसइ माह- वो त्ति सिवम्' इत्युपसंहृते तन्त्रे नत्वा शिवमिति पदात्मकः कश्चित् प्रत्याहारो नवमित्यक्षराकारश्च परिस्फुरतीति सर्वथा विश्वव्यवहारवर्तित्रमा- तृरूपमेतदधीनसंरम्भमन्यद् वा वस्तु कर्तृभूतं शिवमुपपादितस्वभावं स्वात्म- देवतात्मानं नत्वा प्रकर्षकाष्ठाप्राप्ततया परासृश्य नवं प्राचीनजोड्यवासना- पर्युदासादुन्मीलदमन्दसंवित्स्वस्पन्दसौन्दर्यसारं सदलौकिकस्वभाव सम्प- द्यत इत्यर्थतत्त्वतात्पर्योपनिषदिति ॥ ७० ॥ एवमारब्धमखिलमपि तन्त्रमव्याकुलं परिसमाप्य तदवतरणक्रम- •मासूत्रयमाणः सिद्धसङ्कल्पतालघूभूतभाववृत्तिस्तन्त्रकृत् तत्प्रयोजिकां स्व- झसमयोपलब्धां सिद्धयोगिनीमनुस्मरन्नाह - इत्थं पाअडसुत्तसत्तइसमुळ्ळा सेक्कसन्धाइणि जग्गत्तक्खणणिव्विसेससिविणोइण्णं पइण्णेत्तरं । लोडळ्ळघनजोग्गसिद्धिपअवीपत्थाणबद्धुज्जमं कन्थासूळकवाळमेत्तविहवं वन्दामि तं जोइणिं ॥ ७९ ॥ इत्थं प्राकृतसूत्रसप्ततिसमुल्लासैकसन्धायिनीं जाग्रत्तत्क्षणनिर्विशेषस्वभावतीर्णां प्रतिज्ञोत्तराम् । लोकोल्लङ्घनयोग्यसिद्धिपदवी प्रस्थानबद्धोद्यमां कन्थाशूलकपालमात्रविभवां वन्दे तां योगिनीम् ॥ इति । इत्थमुपपादितेन प्रकारेण यानि प्राकृतानि संस्कृतव्यतिरे- केण महाराष्ट्राद्यन्यभाषामयानि सूत्राणि सूचनप्रधानानि गाथात्मकानि वाक्यानि तेषां सप्ततिं प्रति य उल्लासः समुत्पत्तिः प्रसृतिश्च, तत्रैकां सन्धायिनीमनन्यसापेक्षतयोत्पादयित्रीं तां स्वपरामर्शचमत्कारसारैकगोच- १. 'नः' क. पाठः, २. 'जाड्यावसानं प' ग. पाठः,