पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपैता । काननानि च सर्वाणि सर्वा सर्वसहाय्यभूत् । भीष्मद्रोणकृपद्रौणिकर्णदुर्योधनादयः ॥ शलभा इव यॠज्वालामालम्ब्य शेरते । तदालोक्य ससन्त्रासं साश्रर्य च धनञ्जयम् || अभ्रगम्भीरनिर्घोषो भगवानभ्यभाषत । पश्य विश्वं मया ग्रस्तमा कीटादापितामहम् ॥ विलीयमानं जिह्वाग्रे ज्योतिर्ज्वालाकलापिनि । यत्र क्षणादखण्डानां ब्रह्माण्डानां परम्पराः || समुद्रबुद्बुदन्यायादुन्मिषन्ति त्रुटन्ति च । अत्र भीष्ममितो द्रोणमिह शल्यमितः कृपम् ॥ पश्य भस्मीकृतान् बन्धून् मय्यक्षय्यमहार्चिषि | मज्ज्वालालीढसारं सच्चराचरमिदं जगत् || प्राचीनं वासनाशेषं दग्धं वस्त्रमिवानुते । तदुत्तिष्ठ जहि स्वैरमात्तसारान् महीपतीन् || येन ते तीक्ष्णबाणस्य दोष्णोः शौर्यं प्रथिष्यते । इति फल्गुनमाकर्षन्नात्मैश्वर्यविजृम्भया || क्रमादक्रमचिच्छक्तिस्वातन्त्र्योन्मीलनक्षमैः । अवधीरितवेदादिबाह्यविद्याविडम्वनैः || आचक्षाणैरवैषम्यं कर्माकर्मविकर्मणाम् । विकल्पकल्पनोल्लासग्रासतात्पर्ययोगिभिः ।। निषिद्धस्याप्यनुष्ठाने विहितस्याप्यतिक्रमे । प्रत्यवायं व्युदस्यद्भिः स्वच्छसत्संविदां नृणाम् ॥ लौकिकेऽप्युपयुक्तानां धर्माणामनुमन्तृभिः | स्वसंविदेवतामात्र सपर्यापारहश्वभिः ॥ १. 'विश्वजयाप्र' ख. ग. पाठः, २. 'ते', ३. 'ऋ' ग. पाडः, १८९