पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । प्राणादिभूमिकैराथा: सिध्यन्त्युच्चारणादिभिः । विकल्पैर्मध्यमाः शुद्धैरन्यो: प्रशमितैस्तु तैः ||" इति श्रीतन्त्रालोकोपायद्विशत्यादिनीत्या प्राणीस्पन्दोच्चारणावशुद्धविकल्प आणवः । चित्तमात्रनिर्वर्त्यशुद्धविकल्पात्मा शाक्तः । विकल्पसर्वविलय- स्वभावः शाम्भव इति त्रिविषेऽप्युपायतत्त्वे स्थूलसूक्ष्मादितारतम्ययोगेन शक्तयुल्लेखस्य सर्वत्राप्यनुस्यूतिः । शाक्ते तु तस्या औल्यण्यमात्रादु- त्कर्ष इत्यनुसन्धेयम् । यदुक्तं - ४ “सा शक्तिराणवैः शाक्तैः शाम्भवैश्च त्रिघोदितैः । उपायैः शिवमाभास्य स्वसृष्टैर्मोचयत्यमून् ॥" इति ।। ६६ ।। एवं यौगपद्यादुपायत्रयं प्रतिपाद्य तदेव विनेयजनहृदयाधिरोपण- हेतोः पृथक् प्रपञ्चयिष्यन्नादावाणवमालोचयति Co थोरअरेसुं वि पेक्ह भूदेसुं खस्स णिकळावत्थं । छत्तिसिआइळी कारिसओ होउ सोमणाहो सो ॥ ५७ ॥ स्थूलतरेष्वपि प्रेक्षध्वं भूतेषु खस्य निष्कलावस्थाम् | पट्त्रिंशिकातिलगी कीदृशो भवतुं सोमनाथः सः ॥ इति । व्याख्यातवेषाणां तत्त्वानां मध्ये परमशिवभट्टारकः सर्वो- पायप्रतिपाद्य इति परत्वेनावतिष्ठते । अन्येषु च शिवादीनि कानिचित् सूक्ष्माणि, प्रकृतिपुरुषप्रभृतीनि स्थूलानीति कल्पनायां पृथिव्यादीनां स्थूलतरत्वमपि प्रतिपन्नम् । यत्कार्यभूताः स्तम्भकुम्भादयः स्थूलतमा इति ब्यपदिश्यन्ते । तेषु चातिस्थूलेष्वपि पृथिव्यादेः सकाशात् खस्याकाशस्य निष्कलां परिच्छिन्नत्वलक्षणकलाविलासशून्यां स्वभावभूतामवस्थामालोच- यध्वम्, यया तस्य खेचर्याद्यधिकरणत्वप्रसिद्धिः | प्रेक्षध्वमिति, विप्रति- १. 'भ्या' ख. पाठः, २. 'लोकद्विशत्या नी' क. पाठः. ३. 'णाद्यास्प दोषबा' क. ग. पाठः ४. 'र्वस्याप्य', ५. 'ति लोकना', ६. 'ति नीतिक' क पाठः