पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमारी क्षेपलक्षणां स्फुरत्तां यतोः स्वत एवं प्राप्नुवतोः या मध्यस्था बाह्यान्त- भवोपलक्ष्यमाणा तुटि: ताटक परामर्शक्रियात्मा चमत्कारलक्षणः स उत्रु- टितव्यः हृदयङ्गमीभावपर्यन्तमात्मना निर्णेतव्य इति यावत् । अयमा- शयः --- अशेषशरीरसाधारण्येन नित्योदितस्वभावयोः स्वात्मपरिस्पन्दपर• मार्थयोः प्राणापानयोयुगपदुभयविसर्गारणिरूपतापरामर्शः स्वतः सिद्धो- ऽपि स्वहृदयाहादचमत्कारंस्थैर्योत्पादनार्थमात्मनानुसन्धेयः, यस्याननु- सन्धानेऽप्येवंरूपताया न काचित् क्षतिरिति । अयं पुनरुपाय: सर्व- विकल्पविक्षोभव्युदासेन स्वस्वभावमात्रोपपादनप्रवृत्ततया शाम्भव इत्यव- गन्तव्यः । यच्चोक्तम्- “अकिश्चिञ्चिन्तकस्यैव गुरुणा प्रतिबोधितः । उत्पद्यते य आवेशः शाम्भवोऽसावुदाहृतः ।।" इति । अथ पुनः, " एवमेवं दुर्निशायां कृष्णपक्षागमे चिरम् । तैमिरं भावयेद् रूपं भैरवं रूपमेष्यति ॥” इति श्रीविज्ञानभट्टारकन्यायादस्तमद्रिविशेषं विनाशं वा युगपदश्नुवानयो- चन्द्रार्कयोर्मध्यवर्ती काललेशविशेषो बुद्धया निष्क्रष्टव्य इति तु व्या- ख्यानमत्यन्तस्पष्टमित्याग्रहेण नोन्मीलितम् । अत्र चास्त्रमास्थामर्थमस्त- मिति मध्यं ममेति तुटि: त्रुटिरिति च प्राकृतभाषाप्राबल्यात् तन्त्रेणोक्तम् । उक्तरूपस्य चास्योपायत्रयस्य सूक्ष्मेक्षिकया सङ्करः परस्परमपरिहार्यतया वर्तते । केवलं प्राधान्यमात्रेण पृथग्व्यपदेशे इत्युपदेष्टुं, "संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः" इति नीत्या सर्वोपायानां फलं प्रति न किञ्चिद् वैषम्यमित्युपपादयितुं चै- कहेलयोक्तिः । यद्युपश्लेषेणोक्तिस्तु विनेयजनावर्जन तात्पर्येण । तत्र च, “अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते । भेदाभेदात्मकोपायं भेदोपायं तदाणवम् || ‘रं' ग. पाठ:- ४. 'दु' ग. पाठः. २. 'मात्मानु', ३. 'शमिप्युपदिष्टम्' ख. पाठः