पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी योग्यत्वमुत्पद्यते । अनन्तरं परमप्रमातृतापरामरीद्वारा तेषामवच्छिन्न- प्रमातृताविगलनात्मनो दाहस्योपयोगः । यदुक्तं श्रीविज्ञानभहारके - “कालाग्निना कालपदादुत्थितेन स्वकं पुरम् । प्लुष्टं विचिन्तयेदन्ते शान्ताभासः प्रजायते ।।" इति । तदनु तमेव भावं द्रढयितुमलौकिका हन्तानन्दचन्द्रिकामय महाप्रमेयामृतप्रवाहाभिषेकानुभूतिराप्लावनलक्षणा सम्पद्यते । यथा चोक्तं तत्रैव- RO " सर्व जगत् स्वदेहं वा स्वानन्दभरितं स्मरेत् । युगपत् स्वामृतेनैव परानन्दमयो भवेत् ॥” इति । 'पर्यन्ततः प्रामाण्येन प्रकाशानन्दसामरस्यानुभवो भूतशुद्धिरित्युप- निषत् । सा खल्वलौकिकी सृष्टिरित्युच्यते । यथोक्तं श्रीमत्स्तोत्रावल्याम् - “अस्मिन्नेव जगत्यन्तर्भवद् भक्तिमतामपि । हर्षप्रकाशबहलमन्यदेव जगत् स्थितम् ||" इति । यथा च स्तोत्रभट्टारके - “प्रकाशानन्दयोरन्तलोलीभूता परा स्थितिः" इति । यच्चोक्तं मयैव श्रीकोमलवलीस्तवे -- “संप्लुता समरसं सुषठवैर्वह्निवृष्टिरिव विश्वतोमुखी । चण्डि! चेतसि विभासि कस्यचिचिन्मयी समयिनश्चमत्क्रिया ॥" इति ॥ ४४ ॥ अथाङ्गन्यासार्थ्यशुद्धिपुष्पादिस्वभावमुपन्यस्यति - अविअप्पदाए मरसो विअप्पवग्गरस अङ्गसण्णाहो । अग्धं वेज्जविळासो पुप्फाइ सहावपोसआ भावा ॥ ४५ ॥ अविकल्पतया मर्शो विकल्पवर्गस्यासन्नाहः । अर्ध्य वेद्यविलासः पुष्पाणि स्वभावपोषका भावाः ॥ १. 'न', २. 'यथोक्तं' ग. पाठः, ३. 'द्भू' क. ख. पाठः, ४. 'लु', ५. 'धाप्डतैर्व' ग. पाठः,