पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । न सङ्गच्छते, केवलं तत्तदुपाध्युपश्लेषवशादौपचारिकतयैवाङ्गीक्रियते । यथैकमेव वस्तु दर्पणसलिलतैलाद्याधारभेदात् तथा तथा प्रतिबिम्बति । बहुत्ववच्छरीरायुपरागोऽपि न भेदप्रथामुपपादयति । यथोक्तं मयैव श्री- पादुकोदये --- "तत्र यत् पूज्यमस्माकं शक्तीनां मण्डलं महत् । स्वस्वभावात्मके शम्भौ तत् कृत्लं पर्यवस्यति ॥ सोऽपि देवे गुरौ स्वात्मन्यै कात्म्यमुपगच्छति । स च स्वभावादेकः सन्ननेक इव भासते ॥ आरभ्य मङ्गळादीप्तिशिवानन्दादिकं क्रमम् | अम्बानाथपदाध्यासात् पारम्पर्येण पूज्यते || शक्तिः शिवो देवपाणिर्दक्षिणामूर्तिरित्यपि । अन्यथा वा समाख्यातो लोके सोऽयमलौकिकः ॥ तत्तत्कालानुगुण्येन देवस्तैस्तैर्बुभुत्सुभिः । तत्तत्पृथक्त्वमायाति कल्लोलैरिव भानुमान् || वैचित्र्यं च शरीरादेस्तस्यैवेच्छाविजृम्भितम् । तद्विकल्पेन नानात्वं ज्ञेयं तत्पादुकास्वपि ॥" इति । अतश्च तत्त्ववृत्त्या खात्माविभिन्नानुत्तरस्वभावनादशक्त्यात्मा विम- र्श एव श्रीगुरुनाथ इत्युक्तं भवति । यथा श्रीमहानयप्रकाशे - Gr "वस्तुतस्त्वस्वरोल्लासप्रथनोच्छूनतात्मकः । यो विभाति महानादस्तमजं देशिकं श्रये ॥" इति । श्रीचिद्गगनचन्द्रिकायां च - “अस्वरोल्लसनबी जमग्रिमोच्रतक्रमः । नाद एष तव विश्वदेशिकः कोऽपि से स्मृतिविमर्श ईश्वरे || " इति । तस्य च तादृक्स्वरूपपरिज्ञानोपायतया श्रीपादुकायाः परिग्राह्यत्वं, 'शैवीमुखमिहोच्यते' इत्युक्तत्वात् । सा च तादृश्येवाम्नायते । यथोपदि- १. 'क इवा' क. पाठः २. 'च' ण. पाठ.. ३. ख. ग. पाठः. हितिथि' स., 'सहृतिवि' ग. पाठ:•