पृष्ठम्:मनोहरकाव्यमाला.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् । समक्षं तव सौमित्रे प्राणांस्त्यक्ष्याम्यसंशयम् ॥ २६ ॥ रामं विना क्षणमपि नैव जीवामि भूतले । इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ॥ २७ ॥ अब्रवीलक्ष्मणः सीतां प्राञ्जलिः स जितेन्द्रियः । उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ॥ २८ ॥ स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते । विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥ २६ ॥ न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे । श्रोत्रयोरुभयोर्मध्ये तप्तनाराचसंनिभम् ॥ ३० ॥ उपशृण्वन्तु मे सर्वे साक्षिणो हि वनेचराः । न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया ॥ ३१ ॥ धिक्त्वामद्य विनश्यन्तीं यन्मामेवं विशङ्कसे । स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ ३२ ॥ गच्छामि यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने । रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥ ३३ ॥ निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे । अपि त्वां सह रामेण पश्येयं पुनरागतः ॥ ३४ ॥ लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा । प्रत्युवाच ततो वाक्यं तीव्रवाष्पपरिप्लुता ॥ ३५ ॥ गोदावरीं प्रवक्ष्यामि हीना रामेण लक्ष्मण । आबन्धिष्ये ऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥ ३६॥ पिबामि वा विषं तीदणं प्रवेक्ष्यामि हुताशनम् । न त्वहं राघवादन्यं कदापि पुरुषं स्पृशे ॥ ३७ ॥ इति लक्ष्मणमाश्रुत्य सीता शोकसमन्विता । पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ॥ ३८ ॥