पृष्ठम्:मनोहरकाव्यमाला.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यो रामं प्रतियुध्येत समरे वासवोपमम् । अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ॥ १३ ॥ न त्वामस्मिन्वने हातुमुत्सहे राघवं विना । अनिवार्य बलं तस्य बलैर्वलवतामपि ॥ १४ ॥ त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि । हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतां तव ॥ १५ ॥ आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् । न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः ॥१६॥ गन्धर्वनगरप्रख्या माया तस्य च रक्षसः । न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ॥ १७ ॥ रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे । कृतवैराश्च कल्याणि वयमेतैनिशाचरैः॥ १८ ॥ खरस्य निधने देवि जनस्थानवघं प्रति । राक्षसा विविधा वाचो व्याहरन्ति महावने ॥ १६॥ हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि । लक्ष्मणेनैवमुक्ता तु ऋद्धा संरकलोचना ॥ २० ॥ अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् । अनार्यकरुणारम्भ नृशंस कुलपांसन ॥ २१ ॥ अहं तव प्रियं मन्ये रामस्य व्यसनं महत् । रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥ २२ ॥ नैव चित्रं सपत्तेषु पापं लक्ष्मण यद्भवेत् । त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ २३ ॥ सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि । मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥ २४ ॥ तन्न सिध्यति सौमित्रे तवापि भरतस्य वा । कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम् ॥ २५॥