पृष्ठम्:मनोहरकाव्यमाला.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३१ ) क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम् ॥ २॥ तदलं ते वनं गत्वा क्षम नहि वनं तव । विमृशन्निव पश्यामि बहुदोषकरं वनम् ॥ २३ ॥ वनं तु नेतुं न कृता मतिर्यदा बभूव रामेण तदा महात्मना। न तस्य सीता वचनं चकार तं ततोऽब्रवीद्राममिदं सुदुःखिता ॥४॥ एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता। प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ ५ ॥ ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति । गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृता ।। ८६ ॥ मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा । चमराः सृमराश्चैव ये चान्ये वनचारिणः ॥ ८ ॥ अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव । रूपं दृष्ट्वाऽपसपैयुस्तव सर्वे हि बिभ्यति ॥ ८ ॥ त्वया च सह गन्तव्यं मया गुरुजनाया। त्ववियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ ६ ॥ नहि मां त्वत्समीपस्थामपि शकोऽपि राघव । सुराणामीश्वरः शकः प्रधर्षयितुमोजसा ॥६॥ पतिहीना तु या नारी न सा शत्यति जीवितुम् । काममेवंविघं राम त्वया मम निदर्शितम् ॥ ११ ॥ अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम् । पुरा पितगृहे सत्यं वस्तव्यं किल मे वने ॥ १२॥ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाई वचनं गृहे। वनवासकृतोत्साहा नित्यमेव महाबल ॥ ६३॥