पृष्ठम्:मनोहरकाव्यमाला.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३० ) सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले । रात्रिषु श्रमखिन्नेन तस्माहुःखमतो वनम् ॥ ६६ ॥ अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना । फलैर्वृक्षावपतितैः सीते दुःखमतो धनम् ॥ ७० ॥ उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि । जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् ॥ ७१ ॥ देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम् । प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ ७२ ॥ कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः । चरतां नियमेनैव तस्माद्दुःखतरं वनम् ॥ ७३ ॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः । आर्षेण विधिना वेद्यां सीते दुःखमतो वनम् ॥ ७४॥ यथालन्धेन कर्तव्यः संतोषस्तेन मैथिलि । यथाहारैर्वनचरैः सीते दुःखमतो वनम् ।। ७५ ॥ अतीव वातस्तिमिरं बुभुता चास्ति नित्यशः । भयानि च महान्त्यत्र अतो दुःखतरं वनम् ।। ७६ ।। सरीसृपाश्च बहवो बहुरूपाश्च भामिनि । चरन्ति पथि ते दत्ततो दुःखतरं वनम् ॥ ७७॥ नदीनिलयनाः सी नदीकुटिलगामिनः । तिष्ठन्त्यावृत्य पाथानमतो दुःखतरं वनम् ॥ ७८ ॥ पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह । वाधन्ते नित्यमवले सर्व दुःखमतो वनम् ।। ७६ ॥ द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि । वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम् ॥२०॥ कायक्लेशाश्च बहवो भयानि विविधानि च । अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ ८१ ॥