पृष्ठम्:मनोहरकाव्यमाला.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ ) स्व-कृत्यम् । . सूत उवाच- विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥ १ ॥ असत्यो यास्यसीत्युक्त्वा दण्डेनाऽताडयत्तदा । दण्डप्रहारसंभ्रांतमतीवव्याकुलेन्द्रियम् ॥२॥ इष्टबन्धुवियोगार्तमानीय निजपक्कणे । निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः ॥ ३ ॥ निगडस्थस्ततो राजा वसंश्चांडालपक्कणे । अन्नपाने परित्यज्य सदा वै तदशोचयत् ॥ ४ ॥ तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां सरत्यसुखाविष्टा मोक्षयिष्यति नौ नृपः ॥ ५॥ उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् । रोदमानं सुतं वीक्ष्य मां च संबोधयिष्यति ॥६॥ तातपार्श्व ब्रजामीति रुदन्तं बालकं पुनः । तात तातेति भाषन्तं तथा सम्बोधयिष्यति ॥ ७॥ न सा मां मृगशावाक्षी वेत्ति चांडालतां गतम् । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥८॥ ततश्चांडालता चेयमहो दुःखपरम्परा । एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम् ॥६॥ निनाय दिवसाम्राजा चतुरो विधिपीडितः । अथाऽह्नि पञ्चमे तेन निगडान्मोचितो नृपः ॥ १०॥ चाण्डालेनानुशिष्टश्च मृतचैलापहारणे । क्रुद्धेन पुरुषैर्वाक्यैर्निर्मीत्स्य च पुनः पुनः ॥ ११ ॥ काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् ।