पृष्ठम्:मनोहरकाव्यमाला.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२८ ) व्यास उवाच- एवमुक्ते तदा तेन श्वपचो हृष्टमानसः ॥ २८॥ आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत । चांडाल उवाच- दशयोजनविस्तीर्णे प्रयागस्य च मण्डले ॥ २६ ॥ भूमि रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम । अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया ॥ ३०॥ व्यास उवाच- ततो रत्नसहस्राणि सुवर्णमणिमौक्तिकैः। चांडालेन प्रदत्ता निजग्राह द्विजसत्तमः ॥ ३१ ॥ हरिश्चन्द्रस्तथा राजा निर्विकारमुखोऽभवत् । अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः॥ ३२॥ तत्तदेव मया कार्यं यदयं कारयिष्यति । अथान्तरिक्षे सहसा वागुवाचाऽशरीरिणी ॥ ३३ ॥ अनृणोऽसि महाभाग दत्ता सा दक्षिणा त्वया। ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि ॥ ३४ ॥ साधु साध्विति तं देवाः प्रोचुः सेन्द्रा महौजसः । हर्षेण महताऽऽविष्टो राजा कौशिकमब्रवीत् ॥ ३५ ॥ राजोवाच- त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते । यदर्थ मोचितोऽहं ते क्षणाच्चैवऽनृणीकृतः ॥ ३६ ॥ किं करोमि महाबाहो श्रेयो मे वचनं तव । एवमुक्ते तु वचने नृपं मुनिरभाषत ॥ ३७॥ विश्वामित्र उवाच- चांडालवचनं कार्यमद्यप्रभृति ते नृप । स्वस्ति तेऽस्त्विति तं प्रोच्य तदाऽऽदाय धनं ययौ ॥ ३८॥